Skip to content
SarvaKosh
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 879 of 1079

Read in context
Page 879

८२ कथासरित्सागर

तैलमुग्धकथा

अथ श्रुता वरामुग्धस्तरङ्गमुग्धा निशम्यताम्।
मुग्धोऽभूत् पुरुषः कश्चिद् भृत्यः शिष्टस्य कस्यचित् ॥१८८॥
स तेन स्वामिना तैलमानेतुं वणिजोऽन्तिकम्।
प्रेषितो जातु तत्तस्मात् पात्रे तैलमुपाददे ॥१८९॥
तैलपात्रं गृहीत्वा सदागच्छंस्तेन केनचित्।
ऊचे मित्रेण रक्षेव तैलपात्रं प्रयत्नतः ॥१९०॥
तच्छ्रुत्वा वोक्षितुमथ पात्रं तत्पर्यवर्तयत्।
स मूढस्तेन तत्सर्वं तैलं तस्यापतद् भुवि ॥१९१॥
तद्बुद्ध्वा लोकहास्योऽसौ निरस्तः स्वामिना गृहात्।
तस्मात् स्वबुद्धिर्मुग्धस्य वरं न त्वनुशासनम् ॥१९२॥

अस्थिमुग्धकथा

तैलमुग्धः श्रुतस्तावदस्थिमुग्धो निशम्यताम्।
अभून्मूर्खः पुमान् कश्चिद् भार्याभूतस्य चासती ॥१९३॥
सा तस्मिन्नेकदा पत्यौ कार्याद्देशान्तरं गते।
दत्तस्तम्भशिखां स्वामाप्तां कर्मकरीं गृहे ॥१९४॥
अनन्यवासीं संस्थाप्य निर्गत्यैवान्ततस्ततः।
ययावुपपतेर्गेहं निर्गन्तुंसुसज्जिता ॥१९५॥
अथागतं तत्पतिं सा स्थितशिखाधुग्दग्दवम्।
कर्मकर्यभवद् भार्या मृता दग्धा च सा तव ॥१९६॥
इत्युक्त्वा सा श्मशानं च नीत्वा तत्प्रत्यदर्शयत्।
अस्थीन्यन्यचितास्थानि तान्यादाय रुदंश्च सः ॥१९७॥
कृतोदकोऽथ तीर्थेषु प्रक्षिप्यास्थीनि तानि च।
प्रावर्त्तत स भार्यायास्तस्याः श्राद्धविधौ जडः ॥१९८॥
सद्विप्रं वरमुपानीतं कर्मकर्या तयैव च।
तमेव भार्योपपतिं श्राद्धविप्रं चकार सः ॥१९९॥
ततोपपतिना सार्धं तद्भार्याऽभ्येत्य तत्र सा।
उदारवेषा भुङ्क्ते स्म मृष्टान्नं मासि मासि तत् ॥२००॥
सतीधर्मप्रभावेण भार्या ते परलोकतः।
पश्यागत्य स्वयं भुङ्क्ते ब्राह्मणेन समं प्रभो ॥२०१॥