कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 857 of 1079
Read in context८८ कथासरित्सागर
केचिन्मूर्खाः समाहूय न्ययोज्यन्ताधिकारिभिः ।
ग्राम्या राजकुलाविष्ट खर्जूरानयनं प्रति ॥३२॥
ते दृष्ट्वर्का सुखग्राह्यां खर्जूरपतितां स्वतः ।
खर्जूरीं तत्र खर्जूरीः सर्वा ग्रामे स्वकेऽच्छिदन् ॥३३॥
पतितास्ताश्च कलितास्तेषखर्जूरसञ्चयाः ।
उत्पाप्यारोपयामासुर्न चैषां सिद्ध्यति स्म तत् ॥३४॥
ततश्चानीतखर्जूरा बादृतारोपणेन ते ।
खर्जूरीच्छेदनं बुद्ध्वा राज्ञा प्रत्युत दण्डिताः ॥३५॥
मूर्खमन्त्रि कथा
उक्तं खर्जूरघासोऽथ निष्फालोकनमुच्यते ।
निधानदर्शी केनापि कोष्याज्ञाहे महीभुजा ॥३६॥
मा गात्क्वापि पलाय्यापि राजकुर्मत्रिणा ।
नेत्रे तस्योदपाट्येतां निधानस्थानदर्शिनः ॥३७॥
भूरूक्ष्णाम्धपदस्मस्त गतावप्यगतौ समम् ।
अन्ध दृष्ट्वा च तं मन्त्री स जडो जहसे जनैः ॥३८॥
लवणभक्षकस्य मूर्खस्य कथा
निधानालोकनं श्रुत्वा श्रूयतां लवणाशनम् ।
बभूव गह्वरो ग्रामवासी कोऽपि जडः पुमान् ॥३९॥
स मित्रेण गृहं जातु नीतो नगरवासिना ।
भोजिता लवणस्वादूत्यन्नानि व्यञ्जनानि च ॥४०॥
केनेय स्वादुतान्नानेरित्यपृच्छत्स गह्वरः ।
प्राधान्याल्लवणेनेति तेनोचे सुहृदा तदा ॥४१॥
तदेव सहि भोक्तव्यमित्युक्त्वा लवणस्य सः ।
पिष्टस्य मुष्टिमादाय प्रक्षिप्यामक्षयन्मुखे ॥४२॥
तच्छूनं तस्य दुर्बुद्धेरोष्ठौ द्मश्रूणि घालिपत् ।
हसतस्तु जनस्यात्र मुखं धवरतां ययौ ॥४३॥
मूर्खगोदोहककथा
लवणाशी ध्रुतो येव त्वया मोदोहकः शृणु ।
ग्राम्यः कश्चिदभून्मुग्धो गोरेका तस्य चाभवत् ॥४४॥