Skip to content
SarvaKosh
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 853 of 1079

Read in context
Page 853

७४ कथासरित्सागर
स कश्चिद्भ्रिष्टतिलान् भृष्ट्वा भुक्त्वा स्वादूनवेत्य तान्।
भृष्टानवापयद् भूरींस्तादृशोत्पत्तिवाञ्छया ॥८॥
जलेऽग्निक्षेपककथा
भृष्टेषु तदजातेषु नष्टार्थं तं जनोऽहसत् ।
तिलवापिक उक्तोऽसौ जलऽग्निक्षेपकं शृणु ॥९॥
मन्दबुद्धिरभूत्कश्चित् पुमान्निशि स चैकदा।
प्रभाते देवतापूजां करिष्यन्नित्यचिन्तयत् ॥१०॥
उपयुक्तौ मम स्नानधूपार्थ्य जलानलौ।
स्थापयामि तदेकत्र्यौ तौ शीघ्रं प्राप्नुयां यथा ॥११॥
इत्यालोच्याम्बुकुम्भान्त क्षिप्त्वाग्नि संविवेश स ।
प्रातश्च वीक्षते यावद् गतोऽग्निर्नष्टमम्बु च ॥१२॥
अङ्गारमलिने तोये दृष्टे तस्याभवन्मुखम्।
सावगण्डं सहास्यस्य लोकस्यासीत् पुन स्मितम् ॥१३॥
नासिकारोपणकथा
श्रुतस्त्वयाग्निकुम्भाख्यो नासिकारोपणं शृणु।
बभूव कश्चित्पुरुषो मूर्खो मूढमतिः क्वचित् ॥१४॥
स भार्यां चिपिटघ्राणां गुरुं चोत्तुङ्गनासिकम्।
दृष्ट्वा तस्य प्रसुप्तस्य नासां छित्वाप्रहीद् गुरोः ॥१५॥
गत्वा च नासिकां छित्वा भार्यायास्तामरोपयत् ।
गुरुर्नासा मुखे तस्या न च तत्राऽरुरोह सा ॥१६॥
एवं भार्यागुरू तेन च्छिन्ननासौ कृतावुभौ।
मूर्खपशुपालस्य कथा
अधुना वनवासी च पशुपालो निशम्यताम् ॥१७॥
पशुपालो महामुग्ध कोऽप्यासीद्गहनारन्ये ।
तस्य धूर्ता समाश्रित्य मित्रत्वे बहवोऽमिलन् ॥१८॥
ते च जगदुराढ्यस्य सुता नगरवासिनः ।
त्वत्कृते याचितास्माभि सा च पित्रा प्रतिश्रुता ॥१९॥