Skip to content
SarvaKosh
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 851 of 1079

Read in context
Page 851

८२ कथासरित्सागर
इत्यादि जल्पतो यावज्जम्बुकौ तौ परस्परम्।
तावत्सञ्जीवकवृषं युद्धे पिङ्गलकोऽवधीत् ॥२५२॥
तस्मिन् हते स किल पिङ्गलकस्य तस्य पार्श्वे समं करटकेन मृगाधिपस्य।
तस्थौ ततो दमनको मुदितश्चिराय मन्त्रित्वमप्रतिहतं समवाप्य भूयः ॥२५३॥
इति नरवाहनदत्तो नीतिमतो बुद्धिविभवसम्पन्नाम्।
मन्त्रिवराद्गोमुखात् श्रुत्वा चित्रां कथां जहर्ष भृशम् ॥२५४॥
इति महाकवि श्रीसोमदेवभट्टविरचिते कथासरित्सागरे शक्तियशोलम्बके
चतुर्थस्तरङ्गः।
पञ्चमस्तरङ्ग
ततः क्षितियशःसोत्कं गोमुखः स विनोदयन्।
नरवाहनदत्तं तं मन्त्री पुनरभाषत ॥१॥
अगुरुदाहीवणिजःकथा
श्रुता प्राज्ञकथा देव त्वया मुग्धकथां शृणु।
मुग्धबुद्धिरभूत्कश्चिदाढ्यस्य वणिजः सुतः ॥२॥
जगाम स वणिज्यायै कटाहद्वीपमेकदा।
भाण्डमध्ये च तस्याभून्महानगुरू सञ्चयः ॥३॥
विक्रीता परमाब्दस्य न तस्यागुरु तत्र तत्।
कश्चिन्नजग्राह तद्वासी जनो वेत्ति न तन्न तत् ॥४॥
काष्ठिकेभ्यस्ततोऽङ्गारान् दृष्ट्वापि क्रीणतो जनान्।
स कालागुरु दग्ध्वा तदङ्गारानकरोज्जडः ॥५॥
विक्रीयाङ्गारमूल्येन तच्छनागरय सतो गृहम्।
तदेव कौशलं शंसन् ययौ लोकहास्यताम् ॥६॥
तिलकाणिककथा
कपितोऽप्युत्सहाथैय श्रूयतां तिलकाणिकः।
बभूव कश्चिद्ग्रामीणो भूतग्रामः कृषीबलः ॥७॥