Skip to content
SarvaKosh
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 841 of 1079

Read in context
Page 841

७९४ कथासरित्सागर

यदवोक्षिप्तलाङ्गूलमुद्धतुंमिदंधरणीं क्षमम्।
उत्थास्यति स ते विद्या प्रजिहीर्षुं तदैव तम् ॥१९६॥
सज्ज्यो नतशिरा भूत्वा शृङ्गाभ्यामुदरं च तम्।
हत्वाभिपातितं कुर्यात् कीर्णान्त्रनिकरं रिपुम् ॥१९७॥
एवमुक्त्वा दमनकः सञ्जीवकवधे स तम्।
गत्वा करटकायासीत्¹ सिद्धभेदौ शशंस तौ ॥१९८॥
ततः सञ्जीवकः प्रायाच्छनैः पिङ्गलकान्तिकम्।
जिज्ञासुरिङ्गिताकारैश्चित्तं तस्य मृगप्रभोः ॥१९९॥
न्यञ्चोक्षिप्तनलाङ्गूलं युयुत्सुं तं समाद्दिधक्रम्।
सिंह सिंहोऽप्यपश्यत्तं दृङ्गोद्भूतस्वमन्तकम् ॥२००॥
ततः प्राहरदुत्पत्य स सिंहोऽस्मिन् वृषे नखैः।
वृषोऽपि तस्मिञ्छृङ्गाभ्यां प्रावर्तिष्टाहवस्तयोः ॥२०१॥
तच्च दृष्ट्वा दमनकं साधु करटकोऽब्रवीत्।
किं स्वार्थसिद्धये व्यसनं प्रभोरुत्पादितं त्वया ॥२०२॥
सम्प्रत्यजानुतापेन भक्षी धाक्ष्यत कामिनी।
पाष्याणावृता मित्रं न चिरस्थायिनी भवेत् ॥२०३॥
यस्य वा यो बहु ब्रूते हितवाक्यावमानिनः।
स तस्माल्लभते दोषं कपेः सूचीमुखो यथा ॥२०४॥

कपेः सूचीमुखस्य च कथा

पूर्वमासन् वने क्वापि वानरा यूथचारिणः।
ते शीते ऋतुं खद्योत दृष्ट्वाग्निरिति मेनिरे ॥२०५॥
तस्मिंश्च तृणपर्णानि विन्यस्याङ्गमतापयन्।
एकस्तु तेषां खद्योतमधमत् मुखानिलैः ॥२०६॥
तद्दृष्ट्वा तत्र तं प्राह पक्षी सूचीमुखाभिधः।
नैषोऽग्निरेष खद्योतो मा क्लेशमनुभूदिति ॥२०७॥
तच्छ्रुत्वाप्यधिकं तं पक्षी सोऽभ्येत्य भृशत।
न्यवारयन्निर्बन्धात् कपिस्तेन चुकोप सः ॥२०८॥


१ सिद्ध = निश्चितं भेदो ययोस्तौ नृपतिवृषौ।