कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 839 of 1079
Read in context७९२ कथासरित्सागर
प्रत्युत्पन्नमतिस्त्वासीत्त तत्रैवाविकम्पित ।
अह प्रतिविधास्यामि भयं चवापतेदिति ॥१८२॥
य मे भविष्यतीत्यासीद्यद्भविष्यस्तु तत्र स ।
अथागत्याक्षिपञ्जालं तत्र ते धीवरा हृदे ॥१८३॥
जालोत्क्षिप्तस्तु तै सद्य प्रत्युत्पन्नमति सुधी ।
कृत्वा निस्पन्दमात्मानं तिष्ठति स्म मृतो यथा ॥१८४॥
स्वयं मृतोऽयमिति तेष्वस्यत्सु तिमिघातिषु ।
पतित्वा स नदी स्रोतस्यगच्छद्द्रुतमन्यतः ॥१८५॥
यद्भविष्यस्तु जालान्तर्वर्त्तनविवर्त्तनं ।
कुर्वन् गृहीत्वा निहतो मन्दबुद्धि स धीवरैः ॥१८६॥
तस्मात्प्रतिविधास्येऽहं न यास्याम्यम्बुधेर्भयात् ।
टिट्टिभदम्पतीकथा (पूर्वानुसृता)
इत्युक्त्वा टिट्टिभो भार्यां तत्रैवासीत् स्वनीडक ॥१८७॥
सत्राणोपीद्वचस्तस्य साहङ्कार महोदधि ।
दिवसेष्वथ प्रसूता सा तद्भार्या तत्र टिट्टिभी ॥१८८॥
जहार स ततोऽण्डानि तस्य जलधिरूर्मिणा ।
पश्यामि टिट्टिभोऽयं मे किं कुर्यादिति कौतुकात् ॥१८९॥
प्राप्तं तदेतद्व्यसनं यन्मयोक्तमभूत्तव ।
इत्याह रुदती सा तं टिट्टिभी टिट्टिभं पतिम् ॥१९ ॥
ततः स टिट्टिभो धीरस्तां स्वभार्यामिमापत ।
पश्येह किं करोम्यस्य पापस्य जलधेरहम् ॥१९१॥
इत्युक्त्वा पक्षिणः सर्वान् सङ्घाटोद्योतपरावरान् ।
गत्वा तै सह शत्रन्द शरणं गरुडं प्रभुम् ॥१९२॥
अब्धिमाण्डापहारेण वयं नाथे सति त्वयि ।
अनाथवत्पराभूता इत्यूचुस्तं च ते खगाः ॥१९३॥
ततः क्रुद्धेन तार्क्ष्येण विज्ञप्तो हरिरम्बुधिम् ।
आग्नेयास्त्रेण संशोष्य टिट्टिभाण्डान्यदापयत् ॥१९४॥
तस्मादत्यक्तधैर्य्येण भाव्यमापदि धीमता ।
उपस्थितमिदानीं तु युद्धं विद्धस्वन ते ॥१९५॥