Skip to content
SarvaKosh
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 833 of 1079

Read in context
Page 833

वचो दमनकस्यैतत् स पूर्वप्रत्ययादृजु ।
सत्यं विचिन्त्य वृषभो विमना निजगाद तम् ॥१४३॥
धिक्सेवाप्रतिपन्नोऽपि क्षुद्रः क्षुद्रपरिग्रहः ।
प्रभुर्वैरित्थमेवेति तथा चेमां कथां शृणु ॥१४४॥

मदोत्कटसिंहकथा

आसीन्मदोत्कटो नाम सिंहः क्वापि वनान्तरे ।
त्रयस्तस्यानुगाश्चासन् द्वीपिवायसजम्बुकाः ॥१४५॥
स सिंहोऽत्र वनेऽद्राक्षीददृष्टचरमेकदा ।
करभं सार्थविभ्रष्टं प्रविष्टं हासनाकृतिम् ॥१४६॥
कोऽयं प्राणीति साश्चर्यं वदत्यस्मिन् मृगाधिपे ।
उष्ट्रोऽयमिति वक्ति स्म देशदृष्टात्र वायसः ॥१४७॥
ततो दत्ताभयस्तेन सिंहेनानाय्य कौतुकात् ।
उष्ट्रः सोऽनुचरीकृत्य स्वान्तिकं स्थापितोऽभवत् ॥१४८॥
एकदा व्रणितोऽस्वस्थः स सिंहो गजयुद्धतः ।
उपवासान् बहूश्चक्रे स्वैश्चैस्तैः सहितोऽनुगैः ॥१४९॥
ततः क्लान्तः स भक्ष्यार्थं भ्रमन् सिंहोऽनवाप्य तत् ।
किं कार्यमित्यपृच्छत्तानुष्ट्रं मुक्त्वाऽनुगान्रहः ॥१५०॥
ते तमूचुः प्रभो वाच्यमस्माभिर्युक्तमापदि ।
उष्ट्रेण साकं किं सख्यं किं नासावेव भक्ष्यते ॥१५१॥
तृणाशी चायमस्माकं भक्ष्य एकाभिषाशिनाम् ।
बहूनामामिषस्यार्थे किं चक्रस्त्यज्यते न किम् ॥१५२॥
दत्ताभयः कथं हन्मीत्युच्यते प्रभुणा यदि ।
दापयामः स्ववाचा तद्युक्त्या सनुममूं वयम् ॥१५३॥
इत्युक्ते तैरनुज्ञातस्तेन सिंहेन वायसः ।
वधाय संविदं कृत्वा चरन् तमभाषत ॥१५४॥
एष स्वामी क्षुधाक्रान्तोऽप्यस्मान् वक्ति न किञ्चन ।
तदस्यात्मप्रदानेनोक्त्या प्रियं कुर्मो यथा वयम् ॥१५५॥
तथा त्वमपि कुर्वीथा येनासौ प्रीयते त्वयि ।
इत्युक्तो वायसनोष्ट्रं मायुस्तत्प्रत्यपद्यत ॥१५६॥