Skip to content
SarvaKosh
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 815 of 1079

Read in context
Page 815

स सिंहो जातु तोयार्थमागच्छन् यमुनातटम् ।
तस्याराक्षादमशृणोत् सञ्जीवनकहुङ्कृतम् ॥२०॥
श्रुत्वा चाश्रुतपूर्वं स तन्नादं दिक्षु मूर्च्छितम् ।
स सिंहोऽचिन्तयत् कस्य बत नादोऽयमईदृशः ॥२१॥
नूनमत्र महत्सत्त्वं किञ्चित्तिष्ठत्यवेमि सत् ।
तन्मे दृष्ट्वैव मां हन्यादनाद्वापि प्रवासयेत् ॥२२॥
इति सोऽपीतपानीय एव गत्वा वनं द्रुतम् ।
भीतः सिंहो निगूढासीदाकारमनुयायिषु ॥२३॥
अथ प्राज्ञो दमनकः स मन्त्री तस्य जम्बुकः ।
तमवोचत् करटकं द्वितीयं मन्त्रिणं रहः ॥२४॥
अस्मत्स्वामी पयः पातुं गतो पीत्वैव सत्त्वरम् ।
आगतस्त्वरितं भद्र प्रच्छन्नोऽधैव कारणम् ॥२५॥
ततः करटकोऽवादीद् व्यापारोऽस्माकमेष कः ।
श्रुतस्त्वया न वृत्तान्तः किं कीलोत्पाटिनः कपेः ॥२६॥

कीलोत्पादिनो वानरस्य कथा

नगरे क्वापि केनापि वणिजा देवतागृहम् ।
कर्तुमारब्धमभवन् भूरिसम्भूृतदायकम् ॥२७॥
तत्र कर्मकराः काष्ठं क्रकचोर्ध्वार्धपाटितम् ।
दत्त्वान्तःकीलकमत्रं ते स्थापयित्वा गृहं ययुः ॥२८॥
तावदागत्य तत्रैको वानरश्चापलोत्प्लुतैः ।
कीलकन्यस्तविभागेऽपि काष्ठे तस्मिन्नुपाविशत् ॥२९॥
नाड्यन्तरे मुखे भूत्योरिव तत्रोपविश्य च ।
कीलमुत्पाटयामास हस्ताभ्यां निष्प्रयोजनम् ॥३०॥
मिथोश्लिष्टात्कीलेन सह काष्ठेन तेन च ।
सषूमागढमसङ्घट्टपीडिताङ्गो ममार सः ॥३१॥
एवं न यस्य यत्कर्म स तत्कुर्वन् विनश्यति ।
तस्मात् किं मृगराजस्य विज्ञातेनाद्यचेन नः ॥३२॥
एतत्करटकाच्छ्रुत्वा धीरो दमनकोऽब्रवीत् ।
अन्तर्भूमं प्रभोः प्राप्यो विशेषः सर्वदा बुधैः ॥३३॥