Skip to content
SarvaKosh
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 813 of 1079

Read in context
Page 813

७६६ कथासरित्सागर
दृष्ट्वा नियम्य स क्रोधं चिन्तयामास धैर्यतः ।
किं मित्रद्रोहिणैतेन पङ्गुना निहतेन मे ॥५॥
दुश्चारित्र्यानया वापि पापया निगृहीतया ।
किं करोम्यहमप्येनान्मात्मानं पापभागिनम् ॥६॥
इत्यालोच्य परित्यज्य तावुभावप्युवाच सः ।
हन्यामहं न युवयोः पश्येयं पुनरेव च ॥७॥
नागन्तव्यमितो भूयो मम लोचनगोचरम् ।
इत्युक्त्या तौ च मुक्तौ तौ ययतुः क्वापि दूरतः ॥८॥
स स्वस्यां परिणीतायामभूच्छूरवर्मा सुनिर्वृतः ।
एवं नूनं जितक्रोधो न दुःखस्यास्पदीभवेत् ॥९॥
कृतप्रज्ञश्च विपदा न जातु न बाध्यते ।
निगदाम्यपि हि प्रज्ञा श्रेयसे न परायणम् ॥१०॥
तथा च शृण्विमां सिंहवृषभादिगतां कथाम् ।
सञ्जीवकवृषभस्य पिङ्गलकसिंहस्य च कथा
आसीत् कोऽपि वणिक्पुत्रो धनवान् नगरे क्वचित् ॥११॥
तस्यैकदा वणिज्यार्थं गच्छतो मथुरां पुरीम् ।
भारवोढा युगं भग्नं भरेण न्यपतद्भुवि ॥१२॥
गिरिप्रस्रवणोद्भूतपङ्के मग्नः स एव पथि ।
सञ्जीवाख्यो वृषभः पपाताद्भूवनिर्गतः ॥१३॥
दृष्ट्वाभिपालितमिदमश्मगिरिदारणायतनम् ।
निरागसं चिरात् त्यक्त्वा वणिक्पुत्रो जगाम सः ॥१४॥
स च सञ्जीवको दैवाद् गतान्वक्षा युगं शनैः ।
उत्थाय शान्तदम्भोजदुर्वलस्तद्भविभाण्डवान् ॥१५॥
चरंश्च यमुनातारे हरितानि तृणानि च ।
पीत्वा स्वच्छतरं वारि शनैर्हृष्टतनुर्बभूव ॥१६॥
उत्प्लवन् पीनसर्वाङ्गः माद्यन् द्युतिमयस्तथा ।
शृङ्गोल्लिखितपद्माक्षः स च सन्नादनन् वने ॥१७॥
तत्राथ चाभवत्तत्र महासिंहो वनान्तरम् ।
यियुः पिङ्गलको नाम रिपुमारणकोविदः ॥१८॥
दमनकः करटकश्च द्वौ शृगालावरचैतयोः ।
एषां मन्त्री स हि नाम तथा करटकस्तयोः ॥१९॥