Skip to content
SarvaKosh
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 795 of 1079

Read in context
Page 795

४४८ कथासरित्सागर
तत्रापश्यं कृतस्नानमहं सरत्सैकतस्थितम् ।
मुनिं मरीचिनामानं पूर्वपुण्यमिवात्मनः ॥५३॥
स मां दृष्ट्वा समाश्वास्य मुखक्षिप्तोदबिन्दुभिः ।
कृत्वा पत्रपुटेऽनैषीदाश्रमं कृपया मुनिः ॥५४॥
तत्र दृष्ट्वा कुलपतिर्मां पुलस्त्यः किलाहसत् ।
तेनान्यमुनिभिः पृष्टो दिव्यदृष्टिरुवाच सः ॥५५॥
इमं शापशुकं दृष्ट्वा दुःखेने हसितं मया ।
वक्ष्यामि चैतत्सम्बद्धां कथां वो विहिताह्निकः ॥५६॥
जातिं यच्छ्रवणादेष प्राग्वृत्तं च स्मरिष्यति ।
इत्युक्त्वा स पुलस्त्यश्चिराह्निकाद्योत्थितोऽभवत् ॥५७॥
कृताह्निकश्च मुनिभिः पुनरभ्यर्थितोऽत्र सः ।
मत्सम्वद्धां कथामेतां महामुनिरवर्णयत् ॥५८॥
सोमप्रभमकरन्दिकाभर्त्तूरत्नप्रभायाः कथा
आसीज्ज्योतिष्प्रभो नाम राजा रत्नाकर पुरे ।
आरत्नाकरमुर्वी यः शशासोजितशासनः ॥५९॥
तस्य तीव्रतपस्तुष्टगौरीपतिवरोद्भवः ।
हर्षवत्यभिधानायां पुत्रो दम्यामजायत ॥६०॥
स्वप्ने मुखप्रविष्टं यत्सोमं वक्री ददर्श सा ।
तेन सोमप्रभं नाम्ना तं चक्रे स्वसुतं नृपः ॥६१॥
ववृधे च स तन्वानः प्रजानां नयनोत्सवम् ।
राजपुत्रोऽमृतमयैर्गुणैः सोमप्रभः क्रमात् ॥६२॥
दृष्ट्वा भरक्षमं शूरं युवानं प्रकृतिप्रियम् ।
यौवराज्येऽभ्यषिञ्चत्तं प्रीतो ज्योतिष्प्रभः पिता ॥६३॥
प्रभाकराभिधानस्य तनयं निजमन्त्रिणः ।
ददौ प्रियङ्करं नाम मन्त्रित्वे चास्य सद्गुणम् ॥६४॥
तत्कालमम्बरादद्य दिव्यमादाय मातलिः ।
अवतीर्णस्तमभ्येत्य सोमप्रभमभाषत ॥६५॥
विद्याधरः सखा शक्रस्यावतीर्णो भवानिह ।
तेन बान्धवा मानं शकेणाञ्चैषवत्सुत ॥६६॥
पूर्वस्नेहेन तं राजन् प्रहितस्तुरगोत्तमः ।
अमानुषश्च शत्रूणामजय्यत्वं भविष्यसि ॥६७॥