Skip to content
SarvaKosh
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 785 of 1079

Read in context
Page 785

१८ कथासरित्सागर
स प्रविष्टोऽत्र पुरुषो नैवाभ्यासितुमोजसा ।
शशाक तस्याः पर्यङ्के न्यषीदत् पुष्पासने ॥१२५॥
तद्दृष्ट्वा बत नीचोऽयमिति यावद्विषीदति ।
राज्ञी सा तावदत्रागादुपरिष्टाद् भ्रमन्नहिः ॥१२६॥
तं विलोक्य भयोत्थाय सहसा पुरुषोऽत्र सः ।
धनुरादाय भुजगं जघान विशिखेन तम् ॥१२७॥
विपन्नपतितं तं च गवाक्षात्क्षिप्तवान्बहिः ।
हर्षेण तन्मयोत्तीर्णो मनर्त स च कातरः ॥१२८॥
नृत्यन्तं वीक्ष्य तं खिन्ना सा कल्याणवती भृशम् ।
दध्यौ धिग्विधिमेतेन निःसत्त्वेनाधमेन मे ॥१२९॥
दृष्ट्वैव तद्विरक्तां तां चित्तज्ञा सा च तत्सखी ।
निर्गत्याशु प्रविश्यात्र जगाद कृतसम्भ्रमा ॥१३०॥
आगतस्ते पिता देवि तदयं यातु सम्प्रति ।
यथागतेनैव पथा स्वगृहं त्वरितं युवा ॥१३१॥
एव तयोक्ते निर्याते रज्ज्वा वातायनाद्बहिः ।
भयाकुलः स पतितो न दैवात् पञ्चतां गतः ॥१३२॥
गते तस्मिन्नुवाचैतां सा कल्याणवती सखीम् ।
सखि सुष्ठु कृतं नीचो यत्त्वयैष बहिष्कृतः ॥१३३॥
शान्तं त्वया मे हृदयं चेतो हि मम दूयते ।
भर्त्ता मे व्याघ्रसिंहादीन्विपाट्यापहृतो ह्रिया ॥१३४॥
अयं तु भुजगं हत्वा हीनसत्त्वः प्रनृत्यति ।
तत्तादृशं तं हित्वा किमस्मिन्मे प्राकृते रतिः ॥१३५॥
तदप्रतिष्ठितमतिं धिङ् मां धिगथवा स्त्रियः ।
या धावन्त्यगुणे हित्वा कर्पूरं मक्षिका इव ॥१३६॥
इति जातानुतापा सा राज्ञी नीत्वा निशां ततः ।
प्रतीक्षमाणा भर्त्तारमासीत्तत्र पितुर्गृहे ॥१३७॥
तावत्स दत्तान्यबलो गजानीकेन भूभुजा ।
गत्वा तान्प्राग्जयान्यस्य पापात्सिंहवतोऽब्रवीत् ॥१३८॥
ततः स सम्प्राप्य पुनः स्वराज्यमानीय भार्यां च पितुर्गृहात्ताम् ।
प्रपूज्य तं च श्वशुरं धनोपेतोऽनिष्कण्टकां क्ष्मां सुचिरं शशास ॥१३९॥