Skip to content
SarvaKosh
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 777 of 1079

Read in context
Page 777

३० कथासरित्सागर
दुःशीलादेवदासयोः कथा
कुटुम्बी देवदासाख्या ग्रामे स ह्यभवत् पुरा।
दुःशीलेति च तस्यासीन्नाम्नान्वर्थेन गेहिनी ॥६८॥
सा चान्यपुरुषासक्तां विविदुः प्रातिवेशिकाः।
एकदा देवदासोऽसौ कार्याद्राजकुलं ययौ ॥६९॥
आनीय सा च तत्काल, तद्भार्या तद्गृहेषिणी ।
गृहस्योपरिभूमौ तं निक्षिप परपूरुषम् ॥७०॥
आगतं च ततस्तं सा देवदास निजं पतिम्।
निशीथे तेन जारेण मुक्तसुप्तमघातयत् ॥७१॥
विसृज्योपपतिं तं च स्थित्वा तूष्णीं निशार्धयम् ।
निर्गत्य चक्रन्द हतो भर्त्ता मे तस्करैरिति ॥७२॥
ततोऽत्र बान्धवोऽभ्येत्य दृष्ट्वावोधमयं यया।
चौरैर्हंत कथं नीतं न कञ्चिदपि चेरिति ॥७३॥
इत्युक्त्वात्र स्थितं बाल पप्रच्छुस्ते तदात्मजम् ।
तातो हतस्त्व केनेति ततः स स्पष्टमब्रवीत् ॥७४॥
पृष्ठभूमाविहाद्यस्म कोऽप्यासीद्दिवसे युवा।
रात्रौ तेनावतीर्यैव तातो मे पश्यतो हतः ॥७५॥
अम्बा तु मां गृहीत्वादौ तातपार्श्वादिवोत्थिता ।
इत्युक्ते शिशुना बुद्धवा भार्या जारेण स हतम् ॥७६॥
जघ्नुस्तं च गवेष्याशु तज्जारं च तदत्र ते ।
स्वीकृत्य सं शिशुं तां च दुःशीलां निरवासयत् ॥७७॥
इत्यन्यरक्तचित्ता स्त्री भुजङ्गी हन्त्यसंशयम्।
एव हरिशिखनोक्ते चमाये गोमुखः पुनः ॥७८॥
किमन्येनेह मद्भुतं वज्रसारस्य सम्प्रति ।
वत्सेश सेवकस्येह हास्यं तच्छ्रूयतामिदम् ॥७९॥
वज्रसारस्य तत्प्रियस्यच कथा
तस्य शूरस्य कान्तस्य सुरूपा मालवोद्भवा ।
वज्रसारस्य भार्याभूत् स्वशरीराधिकप्रिया ॥८०॥