Skip to content
SarvaKosh
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 771 of 1079

Read in context
Page 771

७२४ कथासरित्सागर
वेश्यानां क्व सद्भावो नास्त्यत्र कुरुते पुनः।
मते कुमुदिका भक्तिं न जानेऽस्य कारणम्॥२६॥
एतत्तस्य वचः श्रुत्वा स राजा निजगाद तम्।
मम कुमुदिका प्राणानपि मञ्चति मत्कृते॥२७॥
न चेत्प्रत्ययसि तदहं प्रत्ययं दर्शयामि ते।
इत्युक्त्वा तं स्वसचिवं राजा व्याजमिमं व्यधात्॥२८॥
शनैः कृशाङ्करयं तनुं मितपानोऽल्पभोजनः।
चकार मृतभारमानं निश्चेष्टं मूर्च्छिताङ्गकम्॥२९॥
ततोऽधिरोप्य शिबिकां निन्ये परिजनैश्च सः।
श्मशानं शोचतानन्तगुण ... ... सित्॥३०॥
सा च शोकार्ताकुमुदिका वार्यमाणापि बान्धवैः।
आगत्य तेनैव समं समारोहुञ्चितोपरि॥३१॥
यावच्च दीप्यते वह्निस्तावदन्वागतां स ताम्।
दृष्ट्वा कुमुदिकां राजा समुत्तस्थौ सजृम्भिकम्॥३२॥
प्रत्युज्जीवित एषोऽत्र दिष्ट्या विष्ट्येति वादिनः।
सर्वे कुमुदिकायुक्तं निन्युस्तं स्वगृहं मुदा॥३३॥
अथोत्सवे कृते प्राप्तः स राजा प्रकृतिं रहः।
कश्चिद्दृष्टोऽनुरागोऽस्या इति स स्माह मत्रिणम्॥३४॥
ततस्तं सोऽब्रवीन्मन्त्री न प्रत्यम्येवमप्यहम्।
अस्यप्र कारणं नूनं तत्पेक्ष्यामात्र निश्चयम्॥३५॥
प्रकाशयामस्त्वात्मानमस्म यनेतदर्पितम्।
श्वस मित्रबलं चाभ्यत्राप्य हन्मो रिपून् रणे॥३६॥
एव तस्मिन् वदत्येव मन्त्रिण्यभ्याययौ पुनः।
स गुप्तप्रहितश्चारः स च पृष्टोऽब्रवीदिदम्॥३७॥
वैरिभिर्विषयो व्याप्तः शशिलेखा तु शोकजात्।
देवी राज्ञो मृषा श्रुत्वा विपत्तिं वह्निमाविशत्॥३८॥
एतच्चारवचः श्रुत्वा शोकार्त्तनिरतस्तदा।
हा देवि हा सतीत्यादि विललाप स भूपतिः॥३९॥
तत क्रमेण विश्रान्ततस्तथा कुमुदिकाञ्च सा।
एत्य विक्रमसिंहं तमाश्वास्योवाच भूपतिम्॥४०॥