Skip to content
SarvaKosh
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 587 of 1079

Read in context
Page 587

५४० कथासरित्सागर
सञ्चूङ्क्ष्वा गोमुखोऽथावीत्साधूक्तं मरुभूतिना।
किं पुनर्निराशोऽस्ति तव देवात्र कश्चन ॥५॥
क्षयो यावन्न वृत्तो हि पापस्य परिपन्थिनः।
तावद्दानप्रवृत्तोऽपि दातुं शक्नोषि न प्रभुः ॥६॥
परिक्षीणे पुनः पापे वार्यमाणोपि यत्नतः।
ईश्वरः प्रददात्येव कर्णाभरणमिदं किल ॥७॥
तथा च रूक्षदत्तस्य राज्ञः कार्पटिकस्य च।
लब्धदत्तस्य देवेतां कथामाख्यामि ते शृणु ॥८॥
राज्ञो रूक्षदत्तस्य लब्धदत्त कार्पटिकस्य च कथा
अभूल्लक्षापुरं नाम नगरं वसुधातले।
तत्रासील्लक्षदत्ताख्यस्त्यागिनामग्रणीर्नृपः ॥९॥
रूक्षादूनं न दातुं स जानाति स्म किमार्थिने।
सम्भ्रमात् तु य तस्मै ददौ लक्षाणि पञ्च सः ॥१०॥
तुष्टोप यस्मै स पुनर्निर्दारिद्र्यं चकार तम्।
रूक्षदत्त इति ख्यातं नाम तस्यात एव तत् ॥११॥
तस्यैको लब्धदत्ताख्यः सिंहद्वारे दिवानिशम्।
तस्थौ कार्पटिकश्चर्मखण्डैककटिकर्पटः ॥१२॥
स निवस्त्रटः शीतवर्षे ग्रीष्मातपेऽपि वा।
न चचाल ततः क्षिप्रं स राजा च ददर्श तम् ॥१३॥
तथा तस्य चिरं तत्र तिष्ठतः क्लेशवर्तिनः।
न स राजा ददौ किञ्चिद्दातापि सकृपोऽपि सन् ॥१४॥
अथैकदा स नृपतिर्जगामासन्नकाटवीम्।
स च तं लगुडं बिभ्रदन्वक्कार्पटिको ययौ ॥१५॥
तत्र तस्य ससैन्यस्य वाहनस्थस्य धन्विनः।
व्याघ्रान्वराहान्हरिणान्बाणवर्षेण निघ्नतः ॥१६॥
अग्रत पादचारी सन्न कार्पटिक एककः।
जघान लगुडेनैव वराहाम्हरिजान्वहून् ॥१७॥
स दृष्ट्वा विक्रमं तस्य चित्रं धूर्तः कियानयम्।
इति दध्यौ स राजाऽन्तर्न त्वस्मै किञ्चिदप्यदात् ॥१८॥