कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 583 of 1079
Read in context५३६ कथासरित्सागर
तच्छ्रुत्वा स प्रबुबुधे राजानङ्गप्रभा च सा।
तद्दर्शनाेकितस्वप्ना तच्चान्योन्यमृषोचतुः ॥३९१॥
ततश्च नृपतिं तं सा दृष्टानङ्गप्रभाम्यधात्।
आर्यपुत्र मया जातिः कृत्स्नात्मीया स्मृताधुना ॥३९२॥
अह विद्याधरेन्द्रस्य समरस्यात्मसम्भवा।
एषानङ्गप्रभा नाम पुरे वीरपुराभिधे ॥३९३॥
पितुःशापाविहागत्य विद्याभ्रशेन मानुषी।
भूत्वा विद्याधरीभाव साऽह व्यस्मरमात्मनः ॥३९४॥
इदानीं च प्रबुद्धाहमिति यावच्च वक्ति सा।
तावत् सोऽवततारात्र समरस्तत्पिता दिवः ॥३९५॥
नमस्कृतः स तेनाथ राज्ञा सागरवर्म्मणा।
उवाच पादपतितां तामनङ्गप्रभां सुताम् ॥३९६॥
एहि पुत्रि गृहाणैता विद्याः शापः स ते गतः।
त्वयाष्टजन्मयुक्त हि भुक्तमेकत्र जन्मनि ॥३९७॥
इत्युक्त्वोत्सङ्गमारोप्य विद्यास्तस्यै पुनर्द्ददौ।
ततः सागरवर्म्माणं राजानं समभाषत ॥३९८॥
भवान् विद्याधराधीशो मदनप्रभसंज्ञकः।
अह च समरो नाम सुतानङ्गप्रभा मम ॥३९९॥
प्रवेया पूर्वमेषा च वरैस्तैस्तैरयाच्यत।
न च तेषां कमप्यच्छ्द् भर्त्तारं रूपगर्विता ॥४००॥
ततस्तुल्यगुणेनैषा त्वयाप्युत्केन याचिता।
विधियागाच्च न तदा त्वमप्यङ्गीकृतोऽनया ॥४०१॥
मर्त्यलोकागमायास्यास्तेन शापमदामहम्।
भूयान् मे मर्त्यलोकेऽपि भार्यैयमिति रागिणा ॥४०२॥
सङ्कल्प्य हृदये ध्यात्वा वरदं गिरिजापतिम्।
योगेन स्वा तनुस्त्यक्ता ततो वैद्याधरी त्वया ॥४०३॥
ततस्त्वं मानुषो जातो जाता भार्या तवाप्यसौ।
आगच्छतमिवानीं स्व लोकं मुक्तौ युवां मिथः ॥४०४॥
इति समरेण स उक्तः स्मृतजातिस्तां तनुं प्रयागजले।
मुक्त्वा सागरवर्मा बभूव मदनप्रभः सद्यः ॥४०५॥