Skip to content
SarvaKosh
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 551 of 1079

Read in context
Page 551

५१२ कथासरित्सागर
स्वनामलाञ्छने तस्मिन् सोऽनङ्गप्रमया तया।
सह दिव्यसुरस्तस्थौ ततो हरिवरो नृपः॥२१५॥
साप्यनङ्गप्रभा तत्रवासीत्तदनुरागिणी।
विस्मृत्य स्वं प्रभावं तं सर्वं पापेविमोहिता॥२१६॥
अत्रान्तरे स तत्राद्रौ जीवदत्तो न केवलम्।
प्रबुद्धो नैक्षतानङ्गप्रभां यावत् स्वमप्यसिम्॥२१७॥
क्व साऽनङ्गप्रभा कष्टं क्व स खड्गोऽपि किं नु तम्।
हृत्वा गता सा किं वा तौ नीतौ द्वावपि केनचित्॥२१८॥
इत्युद्विभ्रान्तो बहून् कुर्वन् वितर्कांन् स दिनत्रयम्।
गिरिं तं विचिनोति स्म दह्यमानः स्मराग्निना॥२१९॥
ततोऽश्वतीर्थं चिन्वानो वनानि दिवसान् दश।
स बभ्राम न चापश्यत् तस्याः पदमपि क्वचित्॥२२०॥
हा दुर्जनविधे दुःखात् सा दत्तापि कथं त्वया।
खड्गसिद्ध्या सह हृता प्रयानङ्गप्रभा मम॥२२१॥
इत्याक्रन्दन्निराहारो भ्रमन्नेकमवाप्तवान्।
ग्रामं तत्र विवेशैक्रमाढ्यं द्विजगृहं च सः॥२२२॥
गृहिणी तत्र सुभगा सुवस्त्रा चोपवेश्य तम्।
आसने प्रियदत्ताख्या स्वचेटीं शीघ्रमादिशत्॥२२३॥
त्वरितं जीवदत्तस्य पादौ क्षालयतास्य हि।
निराहारस्य विरहाद्दिनमद्य त्रयोदशम्॥२२४॥
तच्छ्रुत्वा विस्मितो जीवदत्तोऽन्तर्विममर्श सः।
इहानङ्गप्रभा प्राप्ता किं किमेषाथ योगिनी॥२२५॥
इति ध्यायन् धौतपादो भुक्तसद्दत्तभोजनः।
प्रणतः प्रियदत्तां तामत्याश्चर्यां पृच्छति स्म सः॥२२६॥
एकं ब्रूहि कथं वेत्सि मद्द्वृत्तान्तमनिन्दिते।
द्वितीयं चापि कथय प्रियासङ्गो क्व मे गतो॥२२७॥
तच्छ्रुत्वा तमवोचत् सा प्रियदत्ता पतिव्रता।
भर्तुरन्यो न मे चित्ते स्वप्नेऽपि कुरुते पदम्॥२२८॥
पुत्रभ्रातृसमान् यान् पश्यामि पुरुषानहम्।
न च मेऽनर्चितो याति क्वाप्यतिथिर्गृहात्॥२२९॥