Skip to content
SarvaKosh
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 537 of 1079

Read in context
Page 537

५० कथासरित्सागर
अभ्यापतन्तमेकं च सिंहं खड्गधरोऽथ सः।
एकेन तीक्ष्णनिस्त्रिंशप्रहारेण द्विधाऽकरोत् ॥१२७॥
द्वितीयं च गृहीत्वैव चरणे वामपाणिना।
आस्फोट्य भूतले सिंहं चकार गतजीवितम् ॥१२८॥
भापाङ्गो जीवदत्तश्च पञ्चपट्टिक एव च।
एकैकं सिंहमेकैकं तथैवास्फोटयन् भुवि ॥१२९॥
एवं क्रमेण ते राज्ञः पश्यतः पादचारिभिः।
लीलया बहवो वीरैः सिंहव्याघ्रादयो हताः ॥१३०॥
ततः सविस्मयस्तुष्टः कृताखेटः स भूपतिः।
विवेश स्वपुरं तेऽपि वीराः स्वगृहं ययुः ॥१३१॥
स च राजा प्रविश्यान्तःपुरं श्रान्तोऽपि तत्क्षणम्।
तत्रैवानाययामास तामनङ्गरतिं सुताम् ॥१३२॥
आख्याय तेषां वीराणामेकैकस्य पराक्रमम्।
आखेटके यथादृष्टं तामुवाचातिविस्मिताम् ॥१३३॥
पञ्चपट्टिकभापाङ्गावसवर्णावुभौ यदि।
विप्रोऽपि जीवदत्तश्चेद्रूपहीनो विकर्मकृत् ॥१३४॥
तत्क्षत्रियस्य दोषोऽस्ति तस्य खड्गधरस्य कः।
सुप्रमाणसुरूपस्य बलविक्रमशालिनः ॥१३५॥
येन हस्ती हतस्तावद् यः पिनष्टि च भूतले।
गृहीत्वा पादतः सिंहान् खड्गेनान्यान्निहन्ति च ॥१३६॥
दरिद्रः सेवकश्चेति दोषस्तस्योच्यते यदि।
अहं तं सेव्यमन्येषां करिष्यामीश्वरं क्षणात् ॥१३७॥
तत्तं वृणीष्व भर्तारं यदि ते पुत्रि रोचते।
इत्युक्ता तेन सानङ्गरतिः पित्रा जगाद तम् ॥१३८॥
सद्गुणीतेषु सर्वेषु तेषु वीरेष्विह त्वया।
गणकः पृच्छ्यतां तावत् पश्यामः किं ब्रवीति सः ॥१३९॥
एवं तयोक्तः स नृपो वीरानानाम्य सत्र तान्।
तत्सन्निधौ सानुरोधः पप्रच्छ गणकं स्वयम् ॥१४०॥
पश्यानङ्गरतेरेषां मध्यात् केन समं मिथः।
ग्रहस्यानुकूल्यं लग्नञ्च भवेत् तस्याः सदा शुभम् ॥१४१॥