Skip to content
SarvaKosh
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 483 of 1079

Read in context
Page 483

४४६ कथासरित्सागर
विष्वग्गन्धवहुद्धात सदापुष्पफलद्रुमम्।
गन्धर्वरूपसङ्गीतमप्सरोनृत्तोत्सवम् ॥१८९॥
तमेकदेशे स्फटिकमयसिंहासने स्थितम्।
त्रिलोचनं शूलपाणिं स्वच्छस्फटिकसन्निभम् ॥१९०॥
बद्धपिङ्गटाजूटं चारुचन्द्रार्धशेखरम्।
पार्श्वस्थया गिरिजया भगवत्योपसेवितम् ॥१९१॥
सूर्यप्रभः स सानन्दं पश्यति स्म महेश्वरम्।
उपेत्य चापतत्तस्य सप्रतीकस्य पादयोः ॥१९२॥
ततः पृष्ठे करं दत्त्वा समुत्थाप्योपवेश्य च।
किमर्थमागतोऽसीति पप्रच्छ भगवान्हरः ॥१९३॥
प्रत्यासन्नोऽभिषेको मे सन्निधानं तदर्हथ।
प्रभोस्तत्रेति तं सूर्यप्रभः प्रत्यब्रवीच्च सः ॥१९४॥
ततः शम्भुरुवाचेममियान्क्लिष्टोऽसि तद्धि किम्।
सन्निधानाय किं पुत्र तत एवास्मि न स्मृतः ॥१९५॥
तवस्तु सन्निधास्याहमित्युक्त्वा भक्तवत्सलः।
सोऽन्तिकस्थितमाहूय गणमेकं समादिशत् ॥१९६॥
गच्छैतमभिषेकार्थमृषभं पर्वतं नय।
महाभिषेकस्थानं हि तद्देशां चक्रवर्तिनाम् ॥१९७॥
इत्यादिष्टो भगवता स तं सूर्यप्रभं गणः।
प्रदक्षिणीकृतेशामनुत्सङ्गे व्रजतोऽग्रहीत् ॥१९८॥
नीत्वा संस्थापयामास तस्मिन्नृषभपर्वते।
स्वसिद्ध्या रत्नशृङ्गेनैव ययौ चादर्शनं ततः ॥१९९॥
सूर्यप्रभस्य चात्रस्थाः समाययुः स्ववयस्यकाः।
कामचूडामणिमुखा भार्या विद्याधराधिपाः ॥२००॥
सेन्द्राश्च देवा असुराः समयाता महर्षयः।
श्रुतधर्मा सुमेरुश्च स सुवासकुमारकः ॥२०१॥
सूर्यप्रभश्च सर्वांस्तान्यथोचितममानयत्।
उक्तप्रहादिवृतान्तमभ्यनन्दंश्च तेऽपि तम् ॥२०२॥
अथ विविधौषधिसहितं नवीनवान्भोधिदीर्घसम्भूतम्।
मणिकनकमयैः कुम्भैः स्वयमानिन्युर्जलं प्रभासाद्याः ॥२०३॥