कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 345 of 1079
Read in context३१४ कथासरित्सागर
व्यतिक्रम्य क्षमम्भवद्भिर्माविनयात् प्रसादयन्द्र मयम्।
दृष्टं विनयफलं हि त्वयाद्य यदनेन सद्वरा प्राप्ता ॥४११॥
तच्छ्रुत्वा मयमिन्द्रः पाणावालम्ब्य तोषयामास।
सूर्यप्रभाभिभूतः श्रुतधर्मा चामवहदिनेन्दुनिमः' ॥४१२॥
प्रणम्य तमथ क्षमात् सुरपतिर्गुरुं कश्यपं
जगाम स यथागतं निखिललोकपालान्वितः।
मयप्रभृतयोऽपि ते मुनिवरस्य तस्याज्ञया
ततः खलु तवाश्रमात् प्रकृतकार्यसिद्ध्यै ययुः ॥४१३॥
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे सूर्यप्रभलम्बके द्वितीयस्तरङ्गः
तृतीयस्तरङ्गः
सूर्यप्रभस्योद्योगः
ततो मयसुनीथौ तौ गत्वा सूर्यप्रभश्च सः।
कश्यपस्याश्रमात्तस्मात् सम्प्रापुः सर्व एव ते ॥१॥
सङ्गमं चन्द्रभागाया ऐरावत्याश्च यत्र ते।
स्थिताः सूर्यप्रभस्यार्थे राजानो मित्रबान्धवाः ॥२॥
प्राप्तं सूर्यप्रभं ते च दृष्ट्वा तत्र स्थिता नृपाः।
हृदन्तोऽग्रे समुत्तस्थुर्विषण्णा मरणोन्मुखाः ॥३॥
चन्द्रप्रभादर्शनजां तेषामाद्येक्ष्य दुःखिताम्।
सूर्यप्रभोऽब्रवीत् तेभ्यो यथावृत्तं शशंस सन् ॥४॥
तथापि विमनाः पृष्टास्ते तेन कृच्छ्रादवर्णयन्।
तस्य भार्यापहरणं विहितं श्रुतधर्मणा ॥५॥
तत्परामवदुःखार्त्तन देहत्यागोद्यमं निजम्।
धारितं दिव्यया वाचा तथैवास्मै न्यवेदयत् ॥६॥
ततः सूर्यप्रभस्तत्र प्रतिज्ञामकरोन् नृपः।
यदि ब्रह्मादयः सर्वेऽप्यभिरक्षन्ति तं सुराः ॥७॥
१ दिवाते यथा चन्द्रबिम्बं मलिनं भवति, तथा।