Skip to content
SarvaKosh
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 329 of 1079

Read in context
Page 329

२९८ कथासरित्सागर
एतन्महल्लिका तासां मुखाच्छ्रुत्वा जगाद सा।
क्वचित् स दृष्टो युष्माभिर्मनस्तस्मिन् गतं न वः ॥२९८॥
तच्छ्रुत्वा तामवोचँस्ता हर्म्यात् सोऽस्माभिरीक्षितः।
का न सा स्त्री मनो यस्या न स दृष्टो हरेदिति ॥२९९॥
ततः साप्यवदत्तर्हि सातं वक्ष्याम्यहं सखीः।
युष्मानप्यभिशस्तस्मै दापयिष्याम्यमूर्यथा ॥३००॥
इत्यमन्योऽन्यविरहो न स्यान्नः सहवासतः।
इति ब्रुवाणां कन्यास्ताः सम्भ्रान्ताः समभाषिरन् ॥३०१॥
सखि मैवं कृथा नैतद्युक्तमेषा त्रपा हि नः।
एवमुक्तवतीरेका सा जगादासुरेन्द्रजा ॥३०२॥
किमयुक्तं न तेनैका परिणेयाहमेव हि।
तस्मै सर्वेऽपि दास्यन्ति दुहितॄर्दैत्यदानवाः ॥३०३॥
अष्टाश्च राजतनयास्तस्योदूढा भुवि स्थिताः।
परिणेष्यति चत्वारिंशत्स विद्याधरकन्यकाः ॥३०४॥
तन्मध्ये परिणीतासु युष्मासु मम का क्षतिः।
सुखं प्रत्युत वत्स्यामो वयं सख्यः परस्परम् ॥३०५॥
अन्याभिस्तु विरुद्धाभिः कस्ताभिः संस्तवो मम।
युष्माकं च त्रपा कात्र सर्वमेतत् करोम्यहम् ॥३०६॥
इति तासां कथा यावद्वर्त्तते त्वद्गतात्मनाम्।
तावत्ततोऽहं निर्गत्य स्मर तत्पार्श्वमागतः ॥३०७॥
एतत् प्रहस्तस्य मुखाच्छ्रुत्वा सूर्यप्रभोऽत्र सः।
अनिद्र एव शयनं तां निशामनयन्मुदा ॥३०८॥
प्रातः सह सुनीथेन मयेन सचिवैश्च सः।
असुराधिपतिं द्रष्टुं प्रह्लादं तत्सभां ययौ ॥३०९॥
सुनीथं तत्र स प्राह प्रह्लादो दर्शितानरः।
सुतां सूर्यप्रभायाहं ददाम्यस्मै महल्लिकाम् ॥३१०॥
अस्य हि प्राघुणातिथ्यं कार्यं मे तच्च च प्रियम्।
एतत्प्रह्लादवचनं सुनीथोऽभिननन्द सः ॥३११॥
ततो वेदीं समारोप्य मध्यज्वलितपावकाम्।
रत्नमालाभ्राजितोदग्ररत्नस्तम्भावभासिताम् ॥३१२॥