Skip to content
SarvaKosh
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 313 of 1079

Read in context
Page 313

२८२ कथासरित्सागर

चन्द्रप्रभशरीरेण परिणीता च या त्वया।
प्रभासस्य बतोरेतां वत्सि कीर्त्तिमतीं सुताम् ॥१७८॥
श्विस्रस्तवतया द्रष्टव्या समबुद्ध्या सुत त्वया।
त्युक्त्वा मुख्यमार्यास्तास्तिस्रोऽस्मै सा समर्पयत् ॥१७९॥
ततस्तस्मिन् दिने रात्रौ सुनीथो ज्येष्ठया तया।
तेजस्वत्या समं शय्यावासवेश्म विवेश सः ॥१८०॥
तत्रोपभुङ्क्त स्म तया सुचिरोत्सुकया सह।
रतक्रीडासुखं तत्तत्प्राग्भुक्तमपि नूतनम् ॥१८१॥
सूर्यप्रभस्तु सचिवैः सह वासगृहेऽपरे।
निशि तस्यामपत्नीको न्यषीदच्छयनीयके ॥१८२॥
निस्नेहेन किमेतेन स्वप्रियास्यशता बहिः।
इतीव निद्रा स्त्रीमित्यस्यैकस्याप्यस्य नाययौ ॥१८३॥
प्रहस्तस्य च सेष्येव कार्यचिन्तैकसङ्गिनः।
अन्ये तु परितः सूर्यप्रभं निद्रां ययुः सुखम् ॥१८४॥

कलहंस्या कथा

तावत् सूर्यप्रभं सोऽत्र प्रहस्तश्च सखीयुताम्।
प्रविशन्तीं ददृशतुर्वरकन्यामनुत्तमाम् ॥१८५॥
मा भूत्सुरारङ्गना स्वर्गे विम्बोयोऽस्याः पुरो मम।
इत्युत्पाद्यापि विधिना पाताले स्थापितामिव ॥१८६॥
सूर्यप्रभश्च केयं स्यादिति यावद्विमर्शति।
तावत् सा तत्सखीनेयं सुप्तानेकैकमैक्षत ॥१८७॥
अथैकमतिथिंक्लान्तां हित्वा सलक्षणान्वितम्।
दृष्ट्वा सूर्यप्रभं सा तमुपागान्मध्यशायिनम् ॥१८८॥
उवाच च सखीं सोऽस्य सखि तत् स्पृश पादयोः।
एतां तोयसुशीताभ्यां कराभ्यां प्रतिबोधय ॥१८९॥
तच्छ्रुत्वा तत्सखी सा वैतथा चक्रे स चेक्षणे।
सूर्यप्रभो व्याजसुप्तं विहाय प्रोदघाटयत् ॥१९०॥
वीक्ष्य चोवाच कन्ये ते के युवां किमिहागमः।
भवत्योरिति तच्छ्रुत्वा तत्सखी तमभाषत ॥१९१॥
श्रृणु देवास्ति पाताले द्वितीयेऽधिपतिर्जयी।
अमीरु इति दैत्येन्द्रो हिरण्याक्षसुतो बली ॥१९२॥