Skip to content
SarvaKosh
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 273 of 1079

Read in context
Page 273

२४४ कथासरित्सागर
अन्येद्युश्च विमानेन स च सूर्यप्रभश्च सः।
रम्भो वीरभटः सर्वे काञ्चीं ते सानुगा ययुः ॥१०४॥
कुम्भीराभ्युद्गतास्तां च नानारत्नचितां पुरीम्।
काञ्चीं काञ्चीमिव भुवः प्राविशन्गुणगुम्फिताम् ॥१०५॥
तत्र तां विधिना दत्त्वा सुतां सूर्यप्रभाय सः।
वरबन्धोरदान्भूरि कुम्भीरो द्रविणं तदा ॥१०६॥
निर्वृत्ते च विवाहेऽत्र भुक्तोत्तरसुखस्थितम्।
चन्द्रप्रभमुवाचेदं प्रहस्तः सर्वसन्निधौ ॥१०७॥
देव श्रीकण्ठविषये प्रद्युम्नं गतवानहम्।
तत्र प्रसङ्गपृष्टो मां कान्तिसेननृपोऽब्रवीत् ॥१०८॥
सूर्यप्रभो ममादाय सुतां कान्तिमतीं हृताम्।
गृहेमेतु करिष्यामि विधिवत्तस्य सत्क्रियाम् ॥१०९॥
नो चेत्त्यक्ष्याम्यहं देहं दुहितृस्नेहमोहितः।
इत्युक्तस्तेन तत्राहं प्रस्तावे च मयोदितम् ॥११०॥
एवमुक्ते प्रहस्तेन राजा चन्द्रप्रभोऽभ्यधात्।
गच्छ कान्तिमतीं तर्हि तां प्रापय तदन्तिकम् ॥१११॥
ततस्तत्र वयं याम इत्युक्तस्तेन भूभृता।
तदैव मनसा गत्वा प्रहस्तस्तत्तथाकरोत् ॥११२॥
प्रातश्च ते सकुम्भीराः सर्वे चन्द्रप्रभादयः।
श्रीकण्ठविषयं जग्मुर्विमानेन खगामिना ॥११३॥
तत्राप्याप्रगतो राजा कान्तिसेनः स्वमन्दिरम्।
तावत्प्रबोद्य दुहितुर्व्यधादुद्वाहमङ्गलम् ॥११४॥
ददौ तस्यै तदा कान्तिमत्त्यै सूर्यप्रभाय च।
माद्यद्यजननं राजानमितं रत्नसञ्चयम् ॥११५॥
तत्र स्थितेषु तच्चात्र नानाभोगोपसेविषु।
सर्वेषु दूतः कौशाम्ब्या आगत्यैवमभाषत ॥११६॥
जनमेजयभूपालो ब्रवीति भवतामिदम्।
हृता केनापि मन्दिरे परपुष्टेति मे सुता ॥११७॥