Skip to content
SarvaKosh
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 261 of 1079

Read in context
Page 261

२३२ कथासरित्सागर
आह्लादकारी विश्वस्य नाम्नान्वर्थोऽपि यो भवन्।
सन्तापकारी शत्रूणां बभूव ज्वलनप्रभः ॥११८॥
कीर्तिमत्यभिधानायां तस्य देव्यामजायत।
पुत्रो नृपस्यातिशुभैर्लक्षणैः सूचितोदयः ॥११९॥
एष सूर्यप्रभो नाम राजा जातः पुरारिणा।
भावी विद्याधराधीशश्चक्रवर्ती विनिर्मितः ॥१२०॥
इत्युच्चचार गगनात्तस्मिञ्जाते स्फुटं वचः।
सुधावर्षं श्रवणयोश्चन्द्रप्रभमहीभृतः ॥१२१॥
ततस्तस्य पुरारातिप्रसादोत्सवशालिनः।
सूर्यप्रभः स बवृधे राजपुत्रः पितुर्गृहे ॥१२२॥
बाल एव च विद्यानां कलानां च क्रमेण सः।
धर्त्ता सुमतिः पारमुपासितगुरुर्ययौ ॥१२३॥
पूर्णषोडशवर्षं च गुणैरावर्जितप्रजम्।
यौवराज्येऽभ्यषिञ्चत्तं पिता चन्द्रप्रभोऽथ सः ॥१२४॥
स एव मन्त्रिपुत्रांश्च निजांस्तस्मै समर्पयत्।
भासप्रभाससिद्धार्थप्रहस्तप्रभृतीन्बहून् ॥१२५॥
तैः समं युवराजत्वधुरं तस्मिंश्च बिभ्रति।
आजगामैकदा तत्र मयो नाम महासुरः ॥१२६॥
आस्थाने च स तं चन्द्रप्रभं सूर्यप्रभे स्थिते।
उपेत्य रचितातिथ्य जगादैवं मयो नृपम् ॥१२७॥
राजन् विद्याधरेशानां चक्रवर्ती त्रिशूलिना।
अयं विनिर्मितो भावी पुत्रः सूर्यप्रभस्तव ॥१२८॥
तत्किं न साधयत्येष विद्यास्तत्प्राप्तिधायिनीः।
एतदर्थं विसृष्टोऽहमिह देवेन शम्भुना ॥१२९॥
अनुजानीहि तद्यावत्तीरथेनं शिक्षयाम्यहम्।
विद्याधरेन्द्रताहेतुं विद्यासाधनसत्क्रियाम् ॥१३०॥
एतस्य परिपन्थी¹ हि कार्येऽस्मिन्खेचरेन्द्रकः।
विद्यत श्रुतशर्माख्यः सोऽपि शक्रेण निर्मितः ॥१३१॥
१ परिपन्थी - विरोधी, शत्रुः।