Skip to content
SarvaKosh
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 241 of 1079

Read in context
Page 241

२१२ कथासरित्सागर
किंस्वित्स्वर्थमानीयैतः कोऽपि स्वमिह वेधसा।
उत्तिष्ठ तावन्मद्गेहे द्रक्ष्यामः किं भविष्यति ॥१७०॥
इत्युक्त्वोपहृताहारो व्ययाय तया निशाम्।
नरवाहनदत्तस्तामनेषीद् गोमुखान्वितः ॥१७१॥
प्रातः सम्मन्त्र्य कार्यं च गोमुखेन समं रहः।
महाव्रतिकवेषं च कृत्वा वत्सेश्वरात्मजः ॥१७२॥
तद्द्वितीयोऽत्र हा हसि हा हसीति वदन्मुहुः।
गत्वा राजकुलद्वारि बभ्राम जनतेक्षितः ॥१७३॥
तच्चाद्भुतं च स दृष्ट्वा तत्र गत्वैव चेटिका।
कर्पूरिकां राजसुतां तामबोधयत्सविस्मया ॥१७४॥
सिंहद्वारे युवा देवि दृष्टोऽस्माभिर्महाव्रती।
सद्वितीयोऽपि यो धत्त सौन्दर्येणाद्वितीयताम् ॥१७५॥
नारीजनमहामोहदायिनं मन्त्रमद्भुतम्।
उच्चारयति हा हसि हा हसीति दिवानिशम् ॥१७६॥
तच्छ्रुत्वा पूर्वहंसी सा राजपुत्री सकौतुका।
आनाययत्तमेताभिस्तद्रूपं पार्श्वमात्मनः ॥१७७॥
ददर्श चैतमुद्दामरूपाढ्यद्भूतभूमिकम् ।
शङ्करार्चनोपात्तव्रतं नवमिव स्मरम् ॥१७८॥
निजगाद च पश्यन्ती विस्मयोत्फुल्लया दृशा।
किमेतद्देव हा हसि हा हसीत्युच्यते त्वया ॥१७९॥
एवं तयोक्तेऽपि तदा हा हसीत्येव सोऽब्रवीत्।
ततः सहस्थितस्तस्य गोमुखः प्रत्युवाच ताम् ॥१८०॥
अहन्ते कथयाम्येतच्छृणु देवि समासतः।
पूर्वजन्मनि हंसोऽयमभवत्संयोगतः ॥१८१॥
तत्रैव जलधेस्तीरे महतः सरसस्तटे।
कृतारम्यं समं हंस्या तस्यै चन्दनपादपे ॥१८२॥
तस्मिंर्दैवाद्गतस्यैषु समुद्राभिलुतेषु सा।
एतस्य हंसी शोकार्त्ता तत्रैवात्मानमक्षिपत् ॥१८३॥
ततोऽसौ तद्वियोगात्तं परिजातो विरक्तिमान्।
त्यक्तुञ्चाम शरीरं तत्सङ्कल्पमकरोद्यदि ॥१८४॥