कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 219 of 1079
Read in context१९० कथासरित्सागर
एवमुक्तवता तेन गोमुखेन समं पथि।
नरवाहनदत्तोऽत्र स प्रायात्सत्वरस्ततः ॥७॥
क्रमात्प्रापच्च जलधेरुपकण्ठगतं स तत्।
अद्रिकूटनिभाट्टालप्रतोलीगोपुरान्वितम् ॥८॥
मेर्वाभसर्वसौवर्णराजमन्दिरराजितम् ।
नगरं विपुलाभोगं भूमण्डलमिवापरम् ॥९॥
प्रविश्य तत्र विपणीमार्गेण स ददर्श च।
काष्ठयन्त्रमयं सर्वं चेष्टमानं सजीववत् ॥१०॥
वणिग्विलासिनीपौरजनं जनितविस्मयम्।
म्रियामानं निर्जीवं इति वाग्विरहात्परम् ॥११॥
क्रमाच्च गोमुखसखः सोऽन्तिकं राजवेश्मनः।
प्राप तादृशमेवात्र हस्त्यश्वादि विलोकयन् ॥१२॥
विवेश चास्य सौवर्णपुरमस्तकक्षोभिनः।
अभ्यन्तरं ससचिवः साश्चर्यो राजसद्मनः ॥१३॥
तत्र यन्त्रप्रतीहारवारनारीपरिवृतम्।
जडानां स्पन्दने हेतुं तेषां चेतनमेककम् ॥१४॥
इन्द्रियाणामिवात्मानमधिष्ठातृतया स्थितम्।
रत्नसिंहासनासीनं भव्यं पुरुषमैक्षत ॥१५॥
सोऽपि तं पुरुषो दृष्ट्वा चोत्तमाकृतिमुत्थितः।
विधाय स्वागतं स्वस्मिन्नुपावेशयदासनं ॥१६॥
पप्रच्छ चोपविष्टाय्रे क्क कथं किममानुषाम्।
इमामारमनां द्वितीयः सन्निमां प्राप्तो भवानिति ॥१७॥
ततः सोऽपि स्ववृत्तान्तं निवेद्य तमशेषतः।
नरवाहनदत्तस्तं प्रह्वं पप्रच्छ पूरुषम् ॥१८॥
कस्त्वं किं चेदमाश्चर्यं पुरं ते भद्र कथ्यताम्।
तच्छ्रुत्वा स पुमान्वक्तुं स्वोदन्तमपचक्रमे ॥१९॥
राज्यधरनरवाहनाय कथा
अस्ति काञ्चीति नगरी गरीयोगुणगुम्फिता।
काञ्चीव वसुधावध्वा गलद्रत्नरुचिस्ततो गता ॥२०॥