Skip to content
SarvaKosh
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 183 of 1079

Read in context
Page 183

१५८ कथासरित्सागर
इत्याख्याय कथां किल विरत मरुभूतिके सम सचिवः ।
नरवाहनदत्तो निजमुत्थाय चकार दिवसकसम्म्यम् ॥६१॥
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे रत्नप्रभालम्बके
सप्तमस्तरङ्गः।
अष्टमस्तरङ्गः
कर्पूरिकाकथा
ततोऽह्नि परे प्राप्त सोक्ता रत्नप्रभां प्रियाम्।
शीघ्र प्रत्यागमिष्यामीत्याश्वास्याखेटकाय सः ॥१॥
वत्सशेन समं पित्रा वयस्यैश्चाटवीं ययौ।
नरवाहनदत्तास्तैर्गजैश्च परिवारितः ॥२॥
सत्र मिन्नैभकुम्भानां नखोदग्रपरिच्युतैः।
सिंहानां हतसुप्तानामुक्तबीजव मौक्तिकैः ॥३॥
व्याघ्राणां भल्लशूनानां दंष्ट्राभिः साङ्कुरेव च।
सपल्लवेव क्षतजैर्हरिणानां परिप्लुतैः ॥४॥
निमग्नकङ्कपत्रैस्तु क्रोडे स्तबकितेव च।
शरीरे शरभाणां च पतिते फलितेव च ॥५॥
बभूव तस्य निपतद्द्बनधम्बशिलीमुखा।
प्रीतये मृगयालीलाकृता शोभितकानना ॥६॥
शनैः श्रान्तः स विश्रम्य प्रविवेश वनान्तरम्।
हयारूढः सहैकेन गोमुखेनाश्वसादिना ॥७॥
तत्रारेभे च गुलिकाक्रीडां कामपि तत्क्षणम्।
तावच्च तापसी कापि पथा तेन किलाययौ ॥८॥
तस्यास्तस्य कराद् भ्रष्टा गुलिका मूर्ध्नि चापतत्।
ततो विहस्य किञ्चित्सा तापसी तमभाषत ॥९॥
एवमेव मदोदग्रः चेतद्य तद्यद्यवाप्स्यसि।
धातु कर्पूरिकां भार्यां तत्तै कीदृग्भविष्यति ॥१०॥
एतच्छ्रुत्वावसह्यैव तुरगाच्चरणानतः।
नरवाहनदत्तस्तां तापसीं निजगाद सः ॥११॥