Skip to content
SarvaKosh
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 181 of 1079

Read in context
Page 181

१५६ | कथासरित्सागर

जातिस्मरोऽहं नृपते नवतिं च नवाधिकाम्।
जन्मानि स्वशिरो दत्तं मया जन्मनि जन्मनि ॥४७॥
इदं शततमं जन्म शिरोदानाय मे प्रभो।
तन्मा स्म वोध किञ्चित्त्वं विमुखोऽर्थी न याति मे ॥४८॥
तदिदानीं ददाम्यस्मै त्वत्पुत्राय निजं शिरः।
त्वन्मुखालोकनायैव विलम्बो हि कृतो मया ॥४९॥
इत्युक्त्वाश्लिष्य तं भूपं मूर्धनामाघ्राय कोपतः।
प्रक्षिप्तद्राजपुत्रस्य कृपाणं तेन तस्य सः ॥५०॥
तत्कृपाणप्रहारञ्च सोऽथ शस्य नृपात्मजः।
नागार्जुनस्य चिच्छेद शिरो मालादिवाम्बुजम् ॥५१॥
अथोत्थिते महाक्रन्दे प्राणत्यागोन्मुखे नृपे।
इत्युच्चचार गगनादशरीराश्च भारती ॥५२॥
अकार्यं मा कृथा राजंश्चान्धो ह्येष ते सुतः।
नागार्जुनोऽपुनर्जन्मा गतो बुद्धसमां गतिम् ॥५३॥
एतच्छ्रुत्वा स विरतश्चिरायुर्मेरणाद्भूपः।
दत्तवान् शुचा त्यक्तराज्यो वनमथिश्रियत् ॥५४॥
तत्र कालेन तपसा स प्राप परमां गतिम्।
तत्पुत्रोऽप्यचिरत्स्तौ साम्राज्यं जीवहरोऽत्र सः ॥५५॥
प्राप्तराज्यश्च मचिराद्राष्ट्रमेव विधाय सः।
हतो नागार्जुनसुतैः स्मरद्भिरुस्तद्वधं पितुः ॥५६॥
तच्छोकाच्च तन्मातुस्तस्या हृदयमस्फुटत्।
वनार्यजुष्टेन पथा प्रवृत्तानां शिवं कुतः ॥५७॥
राज्ये च राज्ञामन्यस्यां जातस्तस्य चिरायुषः।
बातायुर्नाम पुत्रस्तैर्मन्त्रिमुख्यैर्न्यवेश्यत ॥५८॥
एव नागार्जुनारब्धं मर्त्यानां मृत्युनाशनम्।
न सोढुं दैवतैर्यत्सोऽपि मृत्युवशं गतः ॥५९॥
तस्माद्विधातुविहितोऽयमनित्य एव
दुर्व्वारदुःखबहुलो मनु जीवलोकः।
दाढ्यं न कर्तुमपि यत्नशतैस्तवत्र
कनापि किञ्चिदपि मेच्छति यद्विधाता ॥६०॥