Skip to content
SarvaKosh
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 129 of 1079

Read in context
Page 129

राज्यभ्रंशोऽन्यथा ते स्यान्मृत्युस्तस्माच्च निन्दितम्।
इत्युक्त्वा स गतो ज्ञानी विषादोऽभूत्ततो मम॥४४॥
एवं तनोदिते राज्ञा राज्ञी गुणवरा तु सा।
भयानुरगविभ्रान्ता सा जगाद पतिव्रता॥४५॥
साहाय्यिपुत्र नार्थेन किं मां क्षिपसि भूगृहे।
धन्या ह्यस्मि यदि प्राणैरपि स्यान्मे हितं तव॥४६॥
मम वा मृत्युरस्त्वत्र तव माऽभूदनिर्वृतिः।
इहामुत्र च नारीणां परमा हि गतिः पतिः॥४७॥
इति तस्या वचः श्रुत्वा साधु सोऽचिन्तयत्प्रभुः।
शङ्के न पापमेतस्यां न च तस्मिन्सुरक्षिते॥४८॥
स ह्यम्लानमुखच्छायो निराशङ्को मयेक्षितः।
कष्टं तथापि जिज्ञासे प्रवान्तस्यास्य निश्चयम्॥४९॥
इत्यालोच्य स तां राजा राज्ञीमाह स्म दुःखितः।
संविहेव वरं देवि भूगृहं क्रियतामिति॥५०॥
तथेति च तया प्रोक्तस्तत्रैवान्तःपुरे सुगम्।
विधाय भूगृहं राजा देवीं तां न्यदधेष्व सः॥५१॥
पुत्रं शृङ्गभुजं तस्या विषण्णं पृष्टकारणम्।
आश्वासयस्तद्वोक्त्वा राज्ञी सो स यदुक्तवान्॥५२॥
सापि राज्ञो हितमिति स्वर्गं मेने धरागृहम्।
स्वसुखं नास्ति साध्वीनां तासां भर्तृसुखं सुखम्॥५३॥
एवं कृतेऽयशोमुक्ता तस्य राज्यपराङ्मुखा।
निर्वासिभुजनामानं स्वैरं स्वसुतमभ्यधात्॥५४॥
राज्ञास्मद्विधुरा तावत्खाते गुणवरापिता।
एतत्पुत्रद्वयं देशाच्चलितो गच्छेत् सुखं भवेत्॥५५॥
तत्स शृङ्गभुजो देशाभिर्वास्थेताधिश्राधया।
तौ पुत्र चिन्तयेयुंवित् स्वमन्यैर्भ्रातृभिः सह॥५६॥
इति मात्रोदितं सोऽन्यान् भ्रातॄनुक्त्वा समत्सरः।
आस्ते स्म निर्वासभुजस्तत्रोपायं विचिन्तयन्॥५७॥
एकदा ते महास्त्राणि प्रयुञ्जाना नृपात्मजाः।
प्रासादाग्रे महाकायं सर्वेऽपि ददृशुर्बकम्॥५८॥