Skip to content
SarvaKosh
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 121 of 1079

Read in context
Page 121

८
कथासरित्सागर

तत्तावत् प्रविशामीति नरसिंहो विचिन्त्य सः।
विवेशाभ्यन्तरं राजा बन्दिवृन्दनिवेदितः॥१४७॥
प्रविष्टं तं च दृष्ट्वैव सस्मितं सस्मिताननः।
उत्थाय विक्रमादित्यः कण्ठे जग्राह भूपतिम्॥१४८॥
अथोपविष्टौ तौ द्वावप्यन्योन्यकुशलं नृपौ।
तस्यां मदनमालायां पार्श्वस्थायामपृच्छताम्॥१४९॥
कथाक्रमाच्च पप्रच्छ विक्रमादित्यमत्र सः।
नरसिंहः कुतोऽनेमे सुवर्णपुरुषा इति॥१५०॥
ततोऽथ विक्रमादित्यो निहतश्रमणाधमम्।
साधिताकाशगमनं विस्रस्वरवरेण च॥१५१॥
सम्प्राप्ताक्षयसौवर्णमहापुरुषपञ्चकम्।
कृत्स्नं कथितवानस्मै स्ववृत्तान्तं समद्भूतम्॥१५२॥
नरसिंहोऽथ मत्वा तं महाशक्तिं नमेश्वरम्।
अपापबुद्धिं धृतवान् मित्रत्वाय नृपो नृपम्॥१५३॥
प्रतिपन्नसुहृत्त्वं च कृताचारविधिं तथा।
राजधानीं निजां नीत्वा स्वोपचारैरुपञ्चरत्॥१५४॥
सम्मान्य प्रहितस्तेन राज्ञा च स नृपः पुनः।
गृहं मदनमालाया विक्रमादित्य आययौ॥१५५॥
अथ स निजौजःप्रतिभासम्पादितदुस्तरप्रतिज्ञार्थः।
गन्तुं चकार चेतो निजनगरे विक्रमादित्यः॥१५६॥
तेन समं सा जिगमिषुरसहा विरहस्य मदनमालापि।
त्यक्ष्यन्ती तं वेशं शृङ्गारसवाकृतं वसतिं स्वाम्॥१५७॥
ततस्तया साकमनन्यचित्तया तदीयहस्त्यश्वबलात्यनुद्रुतः।
स विक्रमादित्यनरेन्द्रचन्द्रमा निजं पुरं पाटलिपुत्रकं ययौ॥१५८॥
तत्र तेन सह बद्धसौहृदस्तस्थिवान् स नरसिंहभूपुतः।
मन्वितो मदनमालया तया प्रेममुक्तनिजवेशया सुखम्॥१५९॥
इति देव भवत्युदारसत्त्वे दृढरक्तश्च विलासिनीजनोऽपि।
अवरोधसमो महीपतीनां किमुतान्यः कुलजः पुरन्धि्रलोकः॥१६०॥
इत्थं निशम्य मरुभूतिमुखादुदारामेतां कथां स नरवाहनदत्तभूपः।
विद्याधरोत्तमहृद्यप्रमदां च तस्यै रत्नप्रभां नववधूम्यैधित प्रमोदम्॥१६१॥
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे रत्नप्रभालम्बके चतुर्थस्तरङ्गः।