Skip to content
SarvaKosh
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

Kathasaritsagara Part 1 (Lambaka 1–5)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 869 of 876

Read in context
Page 869

८१० कथासरित्सागर
नरवाहनदत्तस्य मदनमञ्‍चुकायाश्च विवाहः
श्रुत्वैतां भगवद्वाणीं वत्सेन सहपरिच्छदः।
सं प्रणम्य सुतोद्वाहे सानन्दो निश्चय व्यधात् ॥२४६॥
अथ स सचिवमुख्यै पूर्वविज्ञाततत्त्व
नरपतिरभिनन्द्याहूय मोहूर्त्तिकांश्च।
शुभफलदमपृच्छल्लग्नमूचुस्तु ते तं
कतिपयदिनमध्ये भावि प्राप्तपूजाः ॥२४७॥
कालं मनागनुभविष्यति कश्चिदत्र
पुत्रो वियोगमनया सह भार्यया च।
जानीमहे वयमि' निजशास्त्रदृष्ट्या
वत्सेश्वरेति जगदुर्गणका पुनस्ते ॥२४८॥
ततःससूनोर्निजवैभबोचितं विवाहसम्भारविधिं व्यधान्नृपः।
तथा यथास्य स्वपुरी म केवलं पृथिव्यपि क्षोभमगातदुद्यमात् ॥२४९॥
प्राप्ते विवाहदिवसेऽथ कलिङ्गसेना
पित्रा निसृष्टनिजदिव्यविभूषणायाः।
तस्याः प्रसाधनविधिं दुहितुश्चकार
सोमप्रभा पतिनिवेशवशागता च ॥२५०॥
कृतदिव्यकौतुका सा सुतरामेव मदनमञ्चुका व्यभौ।
मन्वेषमेव कान्ता चन्द्रतनुः कान्तिकानुगता ॥२५१॥
दिव्याङ्गनाश्च तस्या दूराच्च श्रूयमाणगीतरवाः।
तद्रूपजिताच्छम्भा ह्रीता इव गङ्गरुं विदधुः ॥२५२॥
भक्तानुकम्पिनि जयात्रिसुतं त्वयाद्य
रत्त्यास्तपः स्वयमुपेत्य कृतं कृतार्थम्।
इत्यावि दिव्यवरचारणवाद्यमिश्र--
वाक्सानुमेयमपि सन्दिदृशेऽत्र गौर्या ॥२५३॥
अथ नरवाहनदत्त प्रविवेश मदनमञ्चुकाध्युषितम्।
कृतवरकौतुकसोमी विविधमहातोद्यभूवृविवाहगृहम् ॥२५४॥
निर्वर्त्य तत्र बहुलोद्यतविप्रमत्तबीवाह मङ्गलविधिं च वधूबरी तौ।
वेदीं समारुरुहतुर्ज्वलिताग्निमुच्चै राज्ञो शिरोमणिमिवामलरत्नदीपाम् ॥२५५॥