Skip to content
SarvaKosh
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

Kathasaritsagara Part 1 (Lambaka 1–5)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 867 of 876

Read in context
Page 867

८८ कथासरित्सागर
ततस्तद्विगतभीस्तस्मिन्नुद्याने व्यहरद्दिनम्।
नरवाहनदत्तस्तां पश्यन् मदनमञ्जुकाम् ॥२३०॥
उत्फुल्लपद्मवदनां दलत्कुवलयेक्षणाम्।
बन्धूककमनीयोष्ठीं मन्दारस्तबकस्तनीम् ॥२३१॥
शिरीष सुकुमाराङ्गीं पञ्चपुष्पमयीमिव।
एकामेव जगज्जैत्रीं स्मरेण विहितामिषुम् ॥२३२॥
कलिङ्गसेनाऽप्यन्येद्युर्गत्वा वत्सेश्वरं स्वयं।
सुताविवाहहेतोस्तद्यथामीष्टं व्यजिज्ञपत् ॥२३३॥
वत्सेशोऽपि विमृश्यैतामाहूय निजमन्त्रिणः।
देव्यां वासवदत्तायां स्थितायां निजगाद तान् ॥२३४॥
कलिङ्गसेना त्वरते सुतोद्वाहाय तत्कथम्।
कुर्मो यद्वचकीत्येतां लोको वक्ष्यत्यसामिति ॥२३५॥
लोकोऽथ सर्वदा रक्ष्यस्तत्रावेहि किं पुरा।
रामभद्रेण शुद्धापि त्यक्ता देवी न जानकी ॥२३६॥
अम्बा हृतापि भीष्मेण बलाद् भ्रातुः कृते तथा।
प्रतीपं किं न वा रक्ष्यं वृत्तपूर्वैरन्यभर्तृका ॥२३७॥
एवं कलिङ्गसेनषा स्वयंवरवृते मयि।
व्यूढा मदनवेगेन तेनैतां गर्हते जनः ॥२३८॥
अतोऽस्यास्तनयामेतां गान्धर्वेविधिना स्वयम्।
नरवाहनदत्तोऽसावुद्वहत्वनुरूपिकाम् ॥२३९॥
इत्युक्ते वत्सराजन स्माह यौगन्धरायणः।
इच्छेत्कलिङ्गसेनेतःनौचित्यं न च प्रभो! ॥२४०॥
न्ध्येषा हि न सामान्या गन्तुसेत्यगङ्गोद्गतम्।
मित्रण चैतदुक्तं मे ज्ञानिना ब्रह्मराक्षसा ॥२४१॥
इत्यादि तत्र ते यावद् विमृशन्ति परस्परम्।
एवं माहेश्वरी वाणी तावत् प्रादुरभूद् दिवः ॥२४२॥
मत्रेवानल्दग्यस्य सृष्ट्म्यात्र मनोभुवः।
नरवाहनदत्तस्य भार्यैषा विनिर्मिता ॥२४३॥
तपस्तुष्टेन भार्यास्य रतिर्मदनमञ्जुका।
एतया मद्विशिष्यार्थं मर्वान्तिपुरमृध्यता। ॥२४४॥
विद्याधरगणिपत्यं श दिव्यं वन्यं करिष्यति।
मत्प्रसादाद् विजिक्ष्यागीतियुक्त्वा विरराम खात् ॥२४५॥