कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
Kathasaritsagara Part 1 (Lambaka 1–5)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)
Page 837 of 876
Read in context४७८ कथासरित्सागर
स्वच्छकान्तिसुधासिक्तां चित्ररूपविभूषणां ।
जङ्गमामिव कन्दर्पराजधानीं मनोरमाम् ॥१४॥
त्वयाहं विजये विश्वमिति प्रीत्येव पादयो।
आश्लिष्टां पञ्चबाणस्य तूणीद्वयशोभया ॥१५॥
सा दृष्ट्वैव मनस्तस्य जहार नृपतेस्तथा।
यथान्विष्य गृहं तस्या स ययौ विवशो निशि ॥१६॥
तां च प्रार्थयमान सन् जगदे स तया नृपः।
रक्षिता त्वं न युक्तं ते परदाराभिमर्षणम् ॥१७॥
हठात्स्पृशसि वा मां चेदधर्मस्ते महान्भवेत्।
मरिष्यामि च सद्योऽहं न सहिष्ये च दूषणम् ॥१८॥
इत्युक्तोऽपि तथा तस्मिन् बलं राज्ञि चिकीर्षति।
शीलभ्रंशभयात्तस्याः सद्यो हृदयमस्फुटत् ॥१९॥
तद्दृष्ट्वा सपदि भीतः स गत्वैव यथागतम्।
दिनैस्तेनानुतापेन राजा पञ्चत्वमाययौ ॥२०॥
इत्याख्याय कथामेतां समयभ्रष्टयानता।
भूयः कलिङ्गसेना सा वत्सेश्वरमभाषत ॥२१॥
तस्मादधर्मे मत्प्राणहरणे मा मतिं कृथा।
इहास्थिताया वस्तुं मे देहि याम्यन्यतोऽन्यथा ॥२२॥
एतत्कलिङ्गसेनायाः श्रुत्वा वत्सेश्वरोऽथ सः।
विचार्य विरतो भूत्वा धर्मत्रासामवापत ॥२३॥
राजपुत्रि ! वस स्वेच्छं भर्त्रा सममिहामुना।
नाहं वक्ष्यामि ते किञ्चिदिदानीं मा भयं कृथाः॥२४॥
इत्युक्त्वैव गते तस्मिन् स्वैरं राज्ञि स्वमन्दिरम्।
श्रुत्वा मदनवेगस्तन्नभसोऽवततार सः ॥२५॥
प्रिये साधु कृतं नैवमकरिष्यः शुभे यदि।
नाभविष्यद्धर्मं यस्मान्नासहिष्यत तन्मया ॥२६॥
इत्युक्त्वा सान्त्वयित्वा तां निशां नीत्वा तया सह।
तत्रैव गच्छन्नागच्छन्नासीद् विद्याधरोऽथ सः ॥२७॥
कलिङ्गसेनापि च सा पत्यौ विद्याधरेश्वरे।
तत्रास्त मर्त्यभावेऽपि दिव्यभोगसुखान्विता ॥२८॥