Skip to content
SarvaKosh
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

Kathasaritsagara Part 1 (Lambaka 1–5)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 807 of 876

Read in context
Page 807

साप्येनमागतं दत्तशिक्षा वासवदत्तया।
तथैवोपाचरत्तृण्वत्पुष्टावोजसतमेव च॥११९॥
ततोऽन्यद्युस्तयोर्देव्योरेक चित्तमवेक्ष्य तत्।
यौगन्धरायणायासीत् सद्यस विमुह्यधूपः॥१२०॥
सोऽपि तं वीक्ष्य राजानं विचारपतितं शनैः।
कारुवेदी जगादेव मन्त्री यौगन्धरायणः॥१२१॥
जानेऽहं नैतदतावदभिप्रायोऽत्र दारुणः।
देवीभ्यां जीवितत्यागदार्ययुक्तं हि चेतसा॥१२२॥
अन्यासक्ते गते भर्त्त्रा स्त्रियो मरणनिश्चिताः।
भवन्त्यदैन्यगम्भीराः साध्व्यः सर्वत्र निःस्पृहाः॥१२३॥
असह्यं हि पुरन्ध्रीणां प्रेम्णो गाढस्य खण्डनम्।
तथा च राजंस्तत्रैतां श्रुतसेनकथां शृणु॥१२४॥
श्रुतसेनभूपतेः कथा
अभूद्दक्षिणभूमी प्राग्गोकर्णाख्ये पुरे नृपः।
श्रुतसेन इति ख्यातः कुम्भभूषानुभाञ्चितः॥१२५॥
तस्य चैकाऽभवच्चिन्ता राज्ञः सम्पूर्णसम्पदः।
आत्मामुरूपां भार्यां यत्स न तावदवाप्तवान्॥१२६॥
एकदा च नृपः कुर्व्वंश्चिन्तां तां तत्क्षपान्तरे।
अग्निधर्म्माभिधानेन जगदे सोऽग्रजन्मना॥१२७॥
आश्चर्य्ये द्वे मया दृष्टे ते राजन्वर्णये शृणु।
तीर्थयात्रागतः पञ्चतीर्थी तामहमाप्तवान्॥१२८॥
यस्यामप्सरसः पञ्च ग्राहत्वमुषिशापतः।
प्राप्ताः सतीश्वरस्तीर्थेमाभागताऽर्जुनम्॥१२९॥
तत्र तीर्थवरे स्नात्वा पञ्चरात्रोपवासिनाम्।
नारायणाचरतादायिनि स्नायिनां नृणाम्॥१३०॥
कर्पूरकथा
यावद् व्रजामि तावच्च लाङ्गलोल्लिखितावनिम्।
गायन्तं कश्चिदद्राक्षं शापित्रं क्षेत्रमध्यगम्॥१३१॥
स पृष्टः शापिरो मार्गं मार्य्यायातेन केनचित्।
प्रमादवेन तद्वाक्यं मामुणोत् गीततत्परः॥१३२॥