Skip to content
SarvaKosh
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

Kathasaritsagara Part 1 (Lambaka 1–5)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 769 of 876

Read in context
Page 769

४१२ कथासरित्सागर
एव महत्तराच्छ्रुत्वा तं सद्येत्यभिनन्द्य च।
प्रहृष्टो हेमवस्त्राद्यैर्वत्सराजोऽभ्यपूजयत् ॥५९॥
आहूय चाब्रवीन्मित्रमुख्यं यौगन्धरायणम्।
राज्ञः कलिङ्गदत्तस्य ख्यातरूपा क्षितौ सता ॥६०॥
स्वयं कलिङ्गसेनाख्या वरणाय ममागता।
तद्ब्रूहि शीघ्रमत्यन्त्यां कदा परिणयामि ताम् ॥६१॥
महामन्त्रिणो यौगन्धरायणस्य कूटनीतिचक्रम्
इत्युक्तो वत्सराजेन मन्त्री यौगन्धरायणः।
अस्यायतिहितापेक्षी क्षणमेवमचिन्तयत् ॥६२॥
कलिङ्गसेना या तावत्ख्यातरूपा जगत्त्रये।
नास्त्यन्या तादृशी तस्यै स्पृहयन्ति सुरा अपि ॥६३॥
तां लब्ध्वा वत्सराजोऽयं सर्वमन्यत्परित्यजेत्।
देवी वासवदत्ता च ततः प्राणैर्वियुज्यते ॥६४॥
नरवाहनदत्तोऽपि नश्येद्राजसुतस्ततः।
पद्मावत्यपि तत्स्नेहाद्देवी जीवति दुष्करम् ॥६५॥
ततश्चण्डमहासेनप्रद्योतौ पितरौ द्वयोः।
देव्योर्विमुञ्चत प्राणात् विकृतिं वापि गच्छतः ॥६६॥
एवं च सर्वनाशः स्यान्न च युक्तं निषेधनम्।
राज्ञोऽस्य व्यसनं यस्माद् वारितस्याधिकीभवेत् ॥६७॥
तस्मान्नुप्रवेशस्य सिद्धयै कालं हराम्यहम्।
इत्यालोच्य स वत्सेशं प्राह यौगन्धरायणः ॥६८॥
देव धन्योऽसि यस्यैषा स्वयं ते गृहमागता।
कलिङ्गसेना भृत्यत्वं प्राप्तश्चतत्पिता नृपः ॥६९॥
तत्ख्या गणकान् पृष्ट्वा सुलग्नेऽस्या यथाविधि।
कार्यः पाणिग्रहो राज्ञो बृहतो दुहिता ह्यसौ ॥७०॥
अद्यास्या दीयतां साधुयोग्यं वासगृहं पृथक्।
दासीदासा विमृग्यन्तां वस्त्राण्याभरणानि च ॥७१॥
इत्युक्तो मन्त्रिममुख्येन वत्सराजस्तथेति तत्।
प्रहृष्टहृदयः सर्व्वं सविदार्य्य चकार सः ॥७२॥