Skip to content
SarvaKosh
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

Kathasaritsagara Part 1 (Lambaka 1–5)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 719 of 876

Read in context
Page 719

६६६ कथासरित्सागर

कीर्त्तिसेनादेवसेनयोः कथा

पुरे पाटलिपुत्राख्ये धुर्यो धनवतां वणिक्।
नाम्ना यथार्थेन पुरा धनपालित इत्यभूत् ॥६९॥
कीर्त्तिसेनाभिधाना च तस्याजायत कन्यका।
रूपेणानन्यसदृशी प्राणभ्योऽप्यधिकप्रिया ॥७०॥
सा च तेन समानाय मगधेषु महद्धये।
देवसेनाभिधानाय दत्ताभूद् वणिजे सुता ॥७१॥
तस्य चातिसुवृत्तस्य देवसेनस्य दुर्जनी।
विपक्षजनकस्यासीज्जननी स्वामिनी गृहे ॥७२॥
सा स्नुषां कीर्त्तिसेनां तां पश्यन्ती पतिसम्मिताम्।
क्रुधा ज्वलन्ती पुत्रस्य परोक्षमकदर्थयत् ॥७३॥
कीर्त्तिसेना च सा भर्तुर्वक्तु नैव शशाक तत्।
कष्टा हि कुटिलश्वश्रूपरतन्त्रवधूस्थितिः ॥७४॥
एकदा स पतिस्तस्या देवसेनो वणिज्यया।
गन्तुं प्रवृते बन्धुप्रेरितो वलभीं पुरीम् ॥७५॥
ततः सा कीर्त्तिसेना च पतिमेवमभाषत।
इयच्चिरं मया नैतदार्यपुत्र तवोदितम् ॥७६॥
कदर्ययति मामेषा तवाम्बा त्वय्यपि स्थिते।
त्वयि तु प्रोषिते किं मे कुर्यादिति न वेद्म्यहम् ॥७७॥
तच्छ्रुत्वा स समुद्भ्रान्तस्तत्स्नेहात्संभयः शनैः।
देवसेनस्तदा गत्वा मातरं प्रणतोऽब्रवीत् ॥७८॥
कीर्त्तिसेनाधुना हस्ते तवाम्ब! प्रस्थितस्य मे।
मास्या निस्नेहता कार्या कुलीमतनया ह्यसौ ॥७९॥
तच्छ्रुत्वा कीर्त्तिसेनां तामाहूयोद्वृत्तितक्षणा।
तं देवसेनं माता सा तत्काल समभाषत ॥८०॥
दृष्टा मया किं पृच्छन्तामेव त्वां प्रेरयत्यसौ।
गृहमेवकरी पुत्र मम तु द्वौ युवां समौ ॥८१॥
श्रुत्वैतच्छान्तचित्तोऽभूत्तत्कृते स वणिश्वरः।
व्याजसप्रणयैर्वाक्यैर्जनन्या को न वञ्च्यते? ॥८२॥