Skip to content
SarvaKosh
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

Kathasaritsagara Part 1 (Lambaka 1–5)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 539 of 876

Read in context
Page 539

४९२ कथासरित्सागर
शिवमाधवधूर्तयो कथा
शिवमाधववृत्तान्तं तथापि शृणु वच्मि ते।
इत्युक्त्वा राजकन्या सा व्याजहार कथामिमाम् ॥८१॥
अस्ति रत्नपुरं नाम यथार्थं नगरोत्तमम्।
शिवमाधवसंज्ञौ च धूर्तौ तत्र बभूवतुः ॥८२॥
परिवारीकृतानेकधूर्तौ तौ चक्रतुश्चिरम्।
माया'प्रयोगनिःशेषमुषिताढ्यजनं पुरम् ॥८३॥
एकदा द्वौ च तावेव मन्त्रं विवक्षतुर्मिथः।
इह नगरमावाभ्यां कृत्स्नं तावद् विलुञ्चितम् ॥८४॥
अत सम्प्रति गच्छावो वस्तुमुज्जयिनीं पुरीम्।
तत्र सु श्रूयते राज्ञः पुरोधाः सुमहाधनः ॥८५॥
शङ्कुरस्वामिनामा च तस्माद्युक्त्या हृतैर्धनैः।
मालवस्त्रीविलासानां यास्यामोऽत्र रसज्ञताम् ॥८६॥
आस्कन्दी दक्षिणार्थस्य स राज्ञः भृकुटीमुखः।
सप्तकुम्भीनिधानो हि कीदृशो गीयते द्विजैः ॥८७॥
कन्यारत्नं च तस्यास्ति विप्रस्यैकमिति श्रुतम्।
तदप्यतत्नसङ्गेन ध्रुवं तस्मादवाप्स्यते ॥८८॥
इति निश्चित्य कृत्वा च मिथः कर्तव्यसंविदम्।
शिवमाधवधूर्तौ तु पुरात् प्रथमतुस्ततः ॥८९॥
शनद्दबोज्जयिनीं प्राप्य माधवः सपरिच्छदः।
राजपुत्रस्य वषेण तस्थौ ग्रामे क्वचिद् बहिः ॥९०॥
शिवस्त्वनिकलं कृत्वा वणिक्वेषां विवेश ताम्।
नगरीमेक एवाद्य बहुमायाविचक्षणः ॥९१॥
तत्राध्युवास क्षिप्राया मटिकां तीरसीमनि।
दृश्यस्थापितमृद्गम्भिदाभाण्डमृगाजिनाम् ॥९२॥
१ मायाप्रयोगेण पूर्णतया, निःशेषं सम्पूर्णतया मुषितः बञ्चितः, आडूव्यः
धनिजनः यस्य पुरस्य ईदृशं पुरमशेषयेत्यर्थः।
२ बहुव्यचारिवस्त्रम्