Skip to content
SarvaKosh
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

Kathasaritsagara Part 1 (Lambaka 1–5)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 529 of 876

Read in context
Page 529

४८४ कथासरित्सागर
वर्धमाना सहैवैतत् समानोद्वाहचिन्तया।
एषा कनकरेखा मे हृदयं देवि बाधते ॥२४॥
स्थानप्राप्तिविहीना हि गीतिवत् कुलकन्यका।
उद्वेगिनी परस्यापि श्रूयमाणैव कर्णयोः ॥२५॥
विद्येव कन्यका मोहादपात्रे प्रतिपादिता।
यशसे न न धर्माय जातानुशयाय तु ॥२६॥
तत्कस्मै दीयते ह्येषा मया नृपतम सुता।
योऽस्याः सम स्यादिति मे चिन्ता देवि ! गरीयसी ॥२७॥
तच्छ्रुत्वा सा विहस्यैव बभाषे कनकप्रभा।
त्वमेवमात्थ कन्या तु नेच्छत्युद्वाहमेव सा ॥२८॥
अद्यैव नर्मणा सा हि कृतकृत्रिमपुत्रका।
वत्से कदा विवाहं ते द्रक्ष्यामीत्युदिता मया ॥२९॥
सा तच्छ्रुत्वैव साक्षेपमेव मां प्रत्यबोधत।
मा मैवमम्ब दातव्या नैव कस्मैचिदप्यहम् ॥३०॥
मद्वियोगो न चादिष्टः कस्यचास्मि सुशोभना।
अन्यथा मां मृतां विद्धि किञ्चिदस्त्यत्र कारणम् ॥३१॥
एव तयोक्ता त्वत्पार्श्वं राजन् विग्नाहमागता ।
सन्निषिद्धविवाहायाः का वरस्य विचारणा ॥३२॥
इति राज्ञीमुखाच्छ्रुत्वा समुद्भ्रान्तः स नृपतिः।
कन्यकान्तः पुरं गत्वा तामवादीत्तदा सुताम् ॥३३॥
प्रार्थ्यन्तेऽपि तपसा यं सुरासुरकन्यकाः।
भर्तृकामः कथं वत्से स निषिद्धः किल त्वया ॥३४॥
एतत्पितुर्वचः श्रुत्वा भूतलन्यस्तलोचना।
तदा कनकरेखा सा निजगाद नृपात्मजा ॥३५॥
तात नैवेप्सितस्तावद् विवाहो मम साम्प्रतम्।
तत्तादृश्यापि किं तेन कार्यं कश्चात्र वो ग्रहः ॥३६॥
इत्युक्तः स तया राजा दुहित्रा धीमतां वरः।
परोपकारी स पुनरेवमेतामभाषत ॥३७॥


१ प्याश्रुत्वा।