Skip to content
SarvaKosh
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

Kathasaritsagara Part 1 (Lambaka 1–5)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 429 of 876

Read in context
Page 429

१८८ कथासरित्सागर
ततो जघान नचिरात् सेनानीस्तारकासुरम्।
ननन्दुः सिद्धकार्याश्च देवा गौरी च पुत्रिणी ॥१९९॥
तदेवं देवि धेयानामपि सन्ति न सिद्धयः।
हेरम्बेऽनर्चिते तस्मात्पूजयन वराधिनी ॥२००॥
इत्युक्ताऽहं वयस्याभिस्तानेकान्तबसिमम्।
आर्यपुत्र पुरा गत्वा विघ्नराजमपूजयम् ॥२०१॥
पूजावसाने चापश्यमकस्माद् गगनाङ्गणे।
उत्पत्य विहरन्तीस्ताः स्वसखीर्निजसिद्धितः ॥२०२॥
तद्दृष्ट्वा कौतुकाद् व्योम्नः समाहूयावतार्य च।
मया सिद्धिस्वरूपं ताः पृष्टा सद्योऽब्रुवन्निदम् ॥२०३॥
इमा नृमांसाशनजा डाकिनीमन्त्रसिद्धयः।
कालरात्रिरिति ख्याता ब्राह्मणी गुरुरत्र नः ॥२०४॥
एवं सखीभिरुक्ताहं खेचरी सिद्धिलोभ्रपा।
नृमांसाशनभीता च क्षणमासं संशया ॥२०५॥
अथ तत्सिद्धिलुब्धत्वादवोचं ताः सखीरहम्।
उपदेशो ममाप्यद्य युष्माभिर्दाप्यतामिति ॥२०६॥
ततो मद्यभ्यर्थनया गत्वा तत्क्षणमेव ताः।
आनिन्युः कालरात्रिं तां तत्रैव विकटाकृतिम् ॥२०७॥
मिलद्भ्रुवं कातराक्षीं व्युच्छिन्नपिष्टनासिकाम्।
स्थूलगण्डां कराळोष्ठीं दन्तुरां दीर्घकन्धराम् ॥२०८॥
लम्बस्तनीमुदरिणीं विदीर्णोत्फुल्लपादुकाम्।
धात्रा वैरूप्यनिर्माणवैदग्धीं दर्शिनामिव ॥२०९॥
सा मां पादानतां स्नातां कृतविघ्नेश्वरार्चनाम्।
विवस्त्रां मण्डले भीमा भैरवार्चामकारयत् ॥२१०॥
अभिषिच्य च सा मह्यं तांस्तान् मन्त्रान्निजाञ् ददौ।
भक्षणाय नृमांसं च देवार्चनबलीकृतम् ॥२११॥
जातमन्त्रगणा भुक्तमहामांसा च तत्क्षणम्।
निरम्बरेवोत्पतिता समन्तादहमम्बरम् ॥२१२॥
कृतक्रीडावतीर्याथ गगनाद् गुर्वनुज्ञया।
गताऽभूवमहं देव कन्यकान्तःपुरं निजम् ॥२१३॥