कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
Kathasaritsagara Part 1 (Lambaka 1–5)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)
Page 325 of 876
Read in context२८४ कथासरित्सागर
इत्यादिभिः समालापैर्वत्सराजः स तद्दिनम्।
लब्धोपरागं देव्याश्च सममेवापनीतवान् ॥५२॥
अन्येद्युर्मगधेशेन प्रेषितो ज्ञानवस्तुना।
दूतो वत्सेशमभ्येत्य तद्वाक्येन व्यजिज्ञपत् ॥५३॥
मन्त्रिभिस्ते वयं तावद् वञ्चितास्तत्तथाधुना।
कुर्याः शोकमयो यन्न जीवलोको भवेन्न नः ॥५४॥
एतच्छ्रुत्वाथ सम्मान्य वत्सेशः प्रजिघाय तम्।
दूतं पद्मावतीपार्श्वं प्रतिसन्देशलम्भने ॥५५॥
सापि वासवदत्तान्वेता तत्सन्निधौ ददौ।
दूतस्य दर्शनं तस्य विनयो हि सतीव्रतम् ॥५६॥
व्याजेन पुत्रि नीता त्वमन्यासक्तश्च तं पतिः।
इति शोकामया लब्धं कन्याजनकताफलम् ॥५७॥
इत्युक्तपितृसन्देशं दूतं पद्मावती तदा।
जगाद भद्र! विज्ञाप्यस्तातोऽम्बा च गिरा मम ॥५८॥
किं शोकेनार्यपुत्रो हि परमं सदयो मयि।
देवी वासवदत्ता च सस्नेहा भगिनीव मः ॥५९॥
तत्तातेनामपुत्रस्य भाव्यं नैव विकारिणा।
निजसत्यमिवार्याभ्यं मदीयं जीवितं यदि ॥६०॥
इत्युक्तं प्रतिसन्देशे पद्मावत्या यथोचिते।
दूतं वासवदत्ता तं सत्कृत्य प्राहिणोत्ततः ॥६१॥
दूते प्रतिगते तस्मिन् स्मरन्ती पितृवेश्मनः।
किञ्चित् पद्मावती तन्मातृत्वाच्छान्तिमना इव ॥६२॥
ततस्तस्य विनोदायमुक्तो वासवदत्तया।
वसन्तकोऽस्मिलव्राज कथामित्थमवर्णयत् ॥६३॥
सोमप्रभागुहसेनयोः कथा
अस्ति पाटलिपुत्राख्यं पुरं पृथ्वोविभूषणम्।
तस्मिंश्च धर्मगुप्ताख्यो बभूवैको महावणिग् ॥६४॥
तस्य चन्द्रप्रभायासीद् भार्या सा च व्यपद्यत।
गर्भा भून्मृगताप्य कन्या गर्भागुरुत्तरोम् ॥६५॥