Skip to content
SarvaKosh
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

Kathasaritsagara Part 1 (Lambaka 1–5)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 321 of 876

Read in context
Page 321

जानेऽहमुर्वशीसङ्गातद्यथेति न तुम्बुरुः।
युष्मद्गुरुरपीत्येनामूचाषाथ पुरूरवाः ॥२२॥
तच्छ्रुत्वा तुम्बुरुः कोपात्तस्मै शापमथादिशत्।
उर्वश्या ते वियोगः स्यादाकृष्णाराधनादिति ॥२३॥
श्रुतशापश्च गत्वैव तमुद्दश्य पुरूरवाः।
अकालाशनिपातोप्रं स्ववृत्तान्तं न्यवेदयत् ॥२४॥
ततोऽकस्मान्निपत्यैव निन्ये क्वाप्यपहृत्य सा।
अदृष्टस्तेन भूपेन गन्धर्वैरूर्वशी किल ॥२५॥
अवधाय शापदोषं तं सोऽप्य गत्वा पुरूरवाः।
हरेराराधनं चक्र ततो बदरिकाश्रमम् ॥२६॥
उर्वशी तु वियोमार्त्ता गन्धर्वविषयस्थिता।
आसीन्मृतेव सुप्तेव लिखितेव विचेतना ॥२७॥
आश्चयं यच्च सा प्राज शापान्ताद्यावलम्बिनी।
मुक्ता विरहदीर्घामु चक्रवाकीव रात्रिषु ॥२८॥
पुरूरवाश्च तपसा तेनाच्युतमतोषयत्।
तत्प्रसादेन गन्धर्वा मुमुचुस्तस्य चोर्वशीम् ॥२९॥
शापान्तरुग्मया मुक्तं पुनरप्सरसा तया।
दिब्यान् स राजा बुभुजे भोगा मृतमत्र्त्त्योऽपि ॥३०॥
इत्युक्त्वा विरते राज्ञि श्रुतोर्वश्यनुरागया।
सापि सोडवियोगत्वाद्व्रीडा बासवदत्तया ॥३१॥
तां दृष्ट्वा युक्त्युपालब्धां राजा देवीं विलक्षिताम्।
अथाप्यामयितुं भूपमाह यौगन्धरायणः ॥३२॥
न श्रुता यदि तन्नामन्कथेयं श्रूयतां त्वया।
अस्तीह तिमिरा नाम नगरी मन्दिरं श्रियः ॥३३॥
तस्यां विहितसेनाख्यः ख्यातिमानभवन्नृपः।
तस्य तेजोवतीत्यासीद् भार्या क्षितितलाप्सराः ॥३४॥
तस्याः कण्ठग्रहेऽप्याप्र स राजा स्पर्शलोलुपः।
न सेहे कञ्चुकेनापि क्षिप्रामाच्छुरितं वपुः ॥३५॥
कदाचित्तस्य राज्ञश्च जज्ञे वीर्य्यज्वरामयः।
यदा निवारयामासुस्तया देव्यास्य सङ्गमम् ॥३६॥