Skip to content
SarvaKosh
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

Kathasaritsagara Part 1 (Lambaka 1–5)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 313 of 876

Read in context
Page 313

पद्मावत्या विसृष्टं च सुखमारुह्य वाहनम्।
तयैव च समादिष्टैस्तन्महत्तरकैः सह ॥९१॥
आगाद् वासवदत्तापि गुप्तं सैन्यस्य पृष्ठतः।
क्रूराङ्गपविकृतं तं पुरस्कृत्य वसन्तकम् ॥९२॥
क्रमाल्लावाणकं प्राप वत्सेशो वसतिं निजाम्।
प्रविवेश समं यध्वा ववी विसतस्तु क्वस ॥९३॥
एत्य वासवदत्तापि सा गोपालकमन्दिरम्।
विवक्षाथ निशीथ च परिसंस्थाप्य महत्तरान् ॥९४॥
तत्र गोपालकं दृष्ट्वा भ्रातरं दर्शितादरम्।
कण्ठे जग्राह रुदती बाष्पव्याकुललोचनम् ॥९५॥
तत्क्षणं स्थितसन्निध्व तत्र यौगन्धरायणः।
आययौ सप्रमम्दकस्तया देव्या कृतादरः ॥९६॥
सोऽस्याः प्रोत्साहविश्लेषद्वेषं यावद्व्यपोहति।
तावत्पद्मावती-पार्श्वं प्रत्यूस्ते महत्तराः ॥९७॥
आगतावन्तिका देवि किमप्यस्मान्विहाय तु।
प्रविष्टा राजपुत्रस्य गृहं गोपालकस्य सा ॥९८॥
इति पद्मावती सा तैर्विज्ञप्ता स्वमहत्तरैः।
वत्सश्वराग्रे साशङ्का तानेव प्रत्यभाषत ॥९९॥
गच्छन्तावन्तिकां ब्रूध निक्षेपस्त्वं हि मे स्थिता।
तदत्र किं ते यन्नाह तत्रैवागम्यतामिति ॥१००॥
तच्छ्रुत्वा तेषु यातेषु राजा पद्मावतीं रहः।
पप्रच्छ मालातिलकौ केनेमौ तौ कृताविति ॥१०१॥
सावोचदथ मद्गेहे न्यस्ता विप्रेण कश्चित्।
भावन्तिकाभिधा यैषा तस्याः शिल्पमिदं महत् ॥१०२॥
तच्छ्रुत्वैव स वत्सशो गोपालगृहमाययौ।
नूनं वासवदत्ता सा भवेदत्रेति चिन्तयन् ॥१०३॥
प्रविवेश च गत्वा तद्द्वारस्थितमहत्तरम्।
अन्तस्तद्देवीगोपालकमन्त्रिव्रयवसन्तसम् ॥१०४॥
तत्र वासवदत्तां तां ददर्श प्रोषितागताम्।
उपक्तञ्जनिर्मुक्तां मूर्तिं चान्द्रमसीमिव ॥१०५॥