Skip to content
SarvaKosh
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

Kathasaritsagara Part 1 (Lambaka 1–5)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 237 of 876

Read in context
Page 237

१९६ कथासरित्सागर
अद्यापि नागतो देवो न च स्वर्गमहं गता।
इति च स्तम्भपृष्ठस्था कुट्टन्येवमचिन्तयत् ॥१८१॥
अक्षमेषोपरि स्थातुं श्रावयन्ती जनांश्च ।
हा हाऽहं पतिष्यामीति सा चक्रन्द च बिभ्यती ॥१८२॥
तच्छ्रुत्वा पतिता सेयं मारीत्याशङ्क्य व्याकुला।
देवि मा मा पतत्यूचुस्ते देवाग्रगता जनाः ॥१८३॥
ततश्छबालवृद्धास्ते माथुरास्तां विभावरीम्।
मारीपातभयोद्भ्रान्ताः कथमप्यत्यवाहयन् ॥१८४॥
प्रातश्च दृष्ट्वा स्तम्भस्थां कुट्टनीं तां तथाविधाम्।
प्रत्यभिज्ञातवान्सर्वं पौरलोकः सराजकः ॥१८५॥
अतिक्रान्तभये तत्र जातहासोऽखिले जने।
आययौ श्रुतवृत्तान्ता तत्र रूपणिकाथ सा ॥१८६॥
सा च दृष्ट्वा सवैरक्ष्या स्तम्भाग्राज्जननीं निजाम्।
तामवातारयत् सद्यस्तत्रस्थैश्च जनैः सह ॥१८७॥
सद्यः सा कुट्टनी तत्र सर्वैस्तैः सकुतूहलैः।
अपृच्छ्यत यथावृत्तं सापि तेभ्यः शशंस तत् ॥१८८॥
ततः सिद्धाद्विचरितं तन्मत्वादद्भुतकारकम्।
सराजविप्रवणिजो जनास्ते वाक्यमब्रुवन् ॥१८९॥
यनेयं विप्रलब्धा हि वञ्चितानेककामुका।
प्रकटः सोऽस्तु तस्येह पट्टबन्धो विधीयते ॥१९०॥
मन्त्रित्वा सोहजङ्घः स समात्मानमदर्शयत्।
पृष्टश्चामुक्तं सर्वं वृत्तान्तं तमवर्णयत् ॥१९१॥
ददौ च तस्मै नृपाय शङ्खछत्राद्युपायनम्।
विभीषणेन प्रहितं जनविस्मयकारकम् ॥१९२॥
अथ तस्य सपदि पट्टं बद्ध्वा सम्पूज्य माथुराः सर्वे।
ख्यापितां रूपणिकां राजादेशेन तां वधूम् ॥१९३॥
ततश्च तत्र प्रियया मम तदा समृद्धरोषो बहुरम्यसङ्कथम् ।
स लोहजङ्घः प्रतिशूरय कुट्टनीनिवारमभ्युं न्यवगद्यथासुखम् ॥१९४॥