Skip to content
SarvaKosh
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

Kathasaritsagara Part 1 (Lambaka 1–5)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 183 of 876

Read in context
Page 183

१४९ कथासरित्सागर
एवमस्त्विति सा चास्मै वरं दत्त्वा तिरोदधे।
अक्षताङ्गः स चोत्तस्थौ जीवन्पिष्ठुरकः पुनः ॥८२॥
सेनेव सह च प्रातः प्रहृष्टो विस्मितश्च सः।
ततः प्रतस्थे धीदत्तः प्राप चोज्जयिनीं क्रमात् ॥८३॥
तत्र सम्भावयामास सखीन्मार्गोन्मुखान्स तान्।
दर्शनेन यथाकालो नीलकण्ठानिवाम्बुदः ॥८४॥
कृतातिथ्यविधिश्चासौ स्वगृहं बाहुशालिना।
नीतोऽभूत् कथितशेषनिजवृत्तान्तकौतुकः ॥८५॥
तत्रोपचर्यमाणः सन् पितृभ्यां बाहुशालिनः।
स उवास समं मित्रैः धीदत्तः स्वगृहे यथा ॥८६॥
कदाचित्सोऽथ सम्प्राप्ते मधुमासमहोत्सवे।
यात्रामुपवनं द्रष्टुं जगाम सखिभिः सह ॥८७॥
तत्र कन्यां ददर्शैकां राज्ञः श्रीबिम्बकेः सुताम्।
आगतामाकृतिमतीं साक्षादिव मधुश्रियम् ॥८८॥
सा मृगाङ्कवती नाम हृदयं तस्य तत्क्षणम्।
विवेश दत्तमार्गेव दृष्ट्यास्य सविलासया ॥८९॥
तस्या अपि मुहुः स्निग्धा प्रथमप्रमदासिनी।
न्यस्ता च प्रति दूतीव दृष्टिञ्चक्रे गतागतम् ॥९०॥
प्रविष्टां वृक्षगहनं तामपश्यंश्च क्षणात्।
श्रीदत्तः शून्यहृदयो तिष्ठोऽपि न ददर्श सः ॥९१॥
ज्ञातं मया ते हृदयं सखे! मापहृतं वृथा।
तदेहि तत्र गच्छावो यत्र राजसुता गता ॥९२॥
इत्युक्तश्चेङ्गितज्ञेन सुहृदा बाहुशालिना।
तथेति स ययौ तस्याः सन्निकर्षं सुहृत्सखः ॥९३॥
हा कष्टमहिना दष्टा राजपुत्रीति तत्क्षणम्।
आक्रन्द उदभूत्तत्र श्रीदत्तहृदयज्वरः ॥९४॥
विषघ्नमाङ्गुलीयं च विद्या च सुहृदोऽस्य मे।
अस्तीति गत्वा जगदे कञ्चुकी बाहुशालिना ॥९५॥
स च तत्क्षणमभ्येत्य कञ्चुकी चरणानतः।
निकटं राजदुहितुः धीदत्तमनयद्द्रुतम् ॥९६॥