Skip to content
SarvaKosh
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

Kathasaritsagara Part 1 (Lambaka 1–5)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 177 of 876

Read in context
Page 177

१४ कथासरित्सागर
एव निष्ठुरकाच्छ्रुत्वा पितरावनुशोच्य स।
निदधे प्रतिसारास्यामिव खड्गे दृशं मुहु ॥६७॥
कालं प्रतीक्षमाणोऽथ वीरो निष्ठुरकान्वितः।
प्रतस्थे तान् सखीन् प्राप्तुं स तामूज्जयिनीं पुरीम् ॥६८॥
भ्रामज्जनान्ते वृत्तान्तं सस्यूतस्तस्य च वर्णयन्।
धीदत्तः स ददर्शैकां क्रोशन्तीमवलां पथि ॥६९॥
अबला भ्रष्टमार्गाहि मालवं प्रस्थितेति ताम्।
ब्रुवन्तीं वयसा सोऽथ सह प्रस्थायिनीं व्यधात् ॥७० ॥
तया दयानुरोधाच्च स्त्रिया निष्ठुरकान्वितः।
कस्मिंश्चिञ्छून्यनगरे दिनं तस्मिन्नुवास स ॥७१॥
तत्र रात्रावकस्माच्च मुक्तनिद्रो ददर्श ताम्।
स्त्रियं निष्ठुरकं हत्वा हृष्टात मांसमश्नतीम् ॥७२॥
उत्तिष्ठत्समाकृष्य सोऽथ खड्गं मृगाङ्ककम्।
सापि स्त्री राक्षसीरूपं घोरं स्वं प्रत्यपद्यत ॥७३॥
स च केशेषु जग्राह निहन्तुं तां निशाचरीम्।
तत्क्षणं दिव्यरूपत्वं सम्प्राप्ता समुवाच सा ॥७४॥
मा मां वधीर्महाभाग मुञ्च नैवास्मि राक्षसी।
अयमेवविधः शापो ममाभूत्कौशिका मुनेः ॥७५॥
तपस्यतो हि तस्याहं धनाधिपतिनामुना।
विघ्नाय प्रेषिता पूर्वं तत्पदप्राप्तिकांक्षिणः ॥७६॥
तस्य कान्तेन रूपेण न क्षोभयितुमक्षमा।
लज्जिता त्रासयन्त्यनमकार्षं भैरवं वपुः ॥७७॥
तद्दृष्ट्वा स मुनिः शापं सदृशं मय्यथो दधौ।
राक्षसी भव पापे त्वं निघ्नन्ती मानुषानिति ॥७८॥
स्वतः केशग्रहे प्राप्ते शापान्तं मे स चाकरोत्।
इत्यहं राक्षसीभावमिमं कष्टमुपागमम् ॥७९॥
मयैव नगरं ह्येतद् ग्रस्तमद्य च मे चिरात्।
त्वया कृतः स शापान्तस्तद्गृहाणाधुना वरम् ॥८०॥
इति तस्या वचः श्रुत्वा धीदत्तः सादरोऽभ्यधात्।
किमन्येन वरेणाद्य जीवत्वेष सखा मम ॥८१॥