Skip to content
SarvaKosh
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

Kathasaritsagara Part 1 (Lambaka 1–5)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 131 of 876

Read in context
Page 131

१८ कथासरित्सागर
ततोऽध्वनि मनाक्छेषे जाते तीव्रतपः कृशः।
क्लान्तः पतितवानस्मि निःसञ्ज्ञो धरणीतले ॥१५॥
उत्तिष्ठ पुत्र सर्वं ते सम्पत्स्यत इति स्फुटम्।
शक्तिहस्तः पुमानन्ये जाने मामब्रवीत्तदा ॥१६॥
तेनाहममृतासारसिक्त इव तत्क्षणम्।
प्रबुद्ध्य क्षुत्पिपासादिहीनः स्वस्थ इवाभवम् ॥१७॥
अथ देवस्य निकटं प्राप्य भक्तिभराकुलः।
स्नात्वा गर्भगृहं तस्य प्रविष्टोऽभूवमुन्मनाः ॥१८॥
ततोऽन्त प्रभुणा तेन स्वप्ने मम दर्शनम्।
दत्तं ततः प्रविष्टा मे मुखं मूर्त्ता सरस्वती ॥१९॥
अथासौ भगवात्साक्षात्षड्भिराननपङ्कजैः ।
'सिद्धो वर्णसमाम्नाय' इति सूत्रमुदैरयत् ॥२०॥
तच्छ्रुत्वैव मनुष्यत्वसुलभाच्चापलाद् बत।
उत्तरं सूत्रमप्यूह्य स्वयमेव मयोदितम् ॥२१॥
अथाब्रवीत्स देवो मां नावदिष्यः स्वयं यदि।
अभविष्यदिदं शास्त्रं पाणिनीयोपमर्दकम् ॥२२॥
अधुना स्वल्पतन्त्रत्वात् कातन्त्राख्यं भविष्यति।
मद्वाहहकलापस्य नाम्ना कालापकं तथा ॥२३॥
इत्युक्त्वा शब्दशास्त्रं तत्प्रकाश्याभिनवं प्रभुः।
साक्षादेव स मां देवः पुनरेवमभाषत ॥२४॥
युष्मदीयः स राजापि पूर्वजन्मन्यभूदृषिः ।
भरद्वाजमुनेः शिष्यः कृष्णसखो महातपाः ॥२५॥
तुल्याभिलाषामालोक्य स चकां मुनिकन्यकाम्।
यमाकस्तन्मातृपुण्येपुशरभ्रातरसङ्गताम् ॥२६॥
अतः स शप्तो मुनिभिरवतीर्ण इहाधुना।
सा चावतीर्णा देवीत्वे तस्यैव मुनिकन्यका ॥२७॥
इत्थमुप्यवतारोऽस्य नृपतिः सातवाहनः ।
दृष्टे त्वय्यखिला विद्याः प्राप्स्यत्येष त्वदिच्छया ॥२८॥
मङ्गलारम्भा हि भवन्त्युत्तमार्था महात्मनाम् ।
जन्मान्तराजिता स्फारसंस्कारादिप्तसिद्धयम् ॥२९॥