Skip to content
SarvaKosh
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

Kathasaritsagara Part 1 (Lambaka 1–5)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 129 of 876

Read in context
Page 129

यहाँ पृष्ठ का देवनागरी पाठ प्रस्तुत है:

९४ कथासरित्सागर
श्रुत्वैवैतदसम्माष्य तमवोचमहं रुषा।
षण्भिर्मासैस्त्वया देवः शिक्षितश्चेत्ततो मया॥१४७॥
संस्कृतं प्राकृतं तद्देशभाषा च सर्वदा।
भाषात्रयमिदं त्यक्तं यन्मनुष्येषु सम्भवेत् ॥१४८॥
शर्ववर्मा ततोऽवादीन्न चैवं करोम्यहम्।
द्वादशाब्दान्वहाम्येष शिरसा तव पादुके॥१४९॥
इत्युक्त्वा निर्गते तस्मिन्नहमप्यगमं गृहम्।
राजाप्युभयतः सिद्धिं मत्वाश्वस्तो बभूव सः॥१५०॥
विहस्तः शर्ववर्मा च प्रतिज्ञां तां सुदुस्तराम्।
पश्यन्सानुशयः सर्वं स्वभार्यायै शशंस तत्॥१५१॥
सापि तं दुःखितावोचत्सङ्कटेऽस्मिंस्तव प्रभो! ।
विना स्वामिकुमारं गतिरन्या न दृश्यते॥१५२॥
तथेति निश्चयं कृत्वा पश्चिमे प्रहरे निशि।
शर्ववर्मा निराहारस्तत्रैव प्रस्थितोऽभवत् ॥१५३॥
तच्च चारमुखाद् बुद्ध्वा मया प्रातर्निवेदितम्।
राज्ञे सोऽपि तदाकर्ण्य किं भवेदित्यचिन्तयत्॥१५४॥
ततस्तं सिंहगुप्ताख्यो राजपुत्रो हितोऽब्रवीत्।
त्वयि खिन्ने तदा देव निर्वेदो मे महानभूत् ॥१५५॥
ततः श्रेयो निमित्तं ते चण्डिकाग्रे निजं शिरः।
छेत्तुं प्रारब्धवानस्मि गत्वास्मान्नगराद् बहिः ॥१५६॥
मम कृपा मुपस्येच्छा सोत्स्यत्येवेत्यवारयत्।
वागन्तरिक्षादथ मां तन्मध्य सिद्धिरस्ति ते॥१५७॥
इत्युक्त्वा नृपमामन्त्र्य सत्वरं शर्ववर्मणः।
पदव्याञ्चारयन् सोऽथ सिंहगुप्तो व्यसर्जंयत् ॥१५८॥
सोऽपि भ्रातृमदा मन्मूलमौनं सुनिश्चित्य।
प्राप स्वामिकुमारस्य शर्ववर्माम्तिकं क्रमात् ॥१५९॥
शरीरनिग्रहेण तपसा तत्र तापितः।
प्रशान्तक्लेशस्य शान्तिभयो यदीप्सितम् ॥१६०॥
आगत्याग्रे तथा राज्ञे पादाभ्यां ग निवेन्ति ।
सिंहगुप्तविशिष्टाभ्यामुदय शर्ववर्मणः ॥१६१॥