Skip to content
SarvaKosh
कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

Karpuramanjari Sattaka of Rajasekhara with Commentary

by महाकवि राजशेखर

DevanagariHindipublished172 pages

Page 106 of 172

Read in context
Page 106

१०० | कर्पूरमञ्जरी
अवि अ,—
देंता कप्पूरपूरच्छुरणमिव दिसासुंदरीणं मुहेसुं
लण्हं जोण्हं किरंता भुअणजणमणाणंदणं चंदणं च ।
जुण्णं कंदप्पकंदं तिहुअणकलणाकंदलिल्लं कुणंतो
जादा एणंकपादा संसअजलहरग्गम्मुक्तधारानुकारा ॥ २८ ॥
विदूषकः—
¹दिसअवअंसो णहसरहंसो ।
णिहुअणकंदो च॑ट्टइ चंदो ॥ २९ ॥
कुरङ्गिका—
ससहररइअमरट्टो माणिणिमाणघरट्टो ।
णवचंपअकोअंडो मअणो जअइ पचंड़ो ॥ ३० ॥
अपि च,—
ददतः कर्पूरपूरच्छुरणमिव दिशासुन्दरीणां मुखेषु
श्लक्ष्णां ज्योत्स्नां किरन्तो भुवनजनमनआनन्ददं चन्दनमिव ।
जीर्णं कन्दर्पकन्दं त्रिभुवनचलनाकन्दलितं कुर्वन्तो
जाता एणाङ्कपादाः सजलजलधरोन्मुक्तधारानुकाराः ॥
श्लक्ष्णां कोमलां ज्योत्स्नां किरन्त इति संबन्धः । तादृशास्ते कीदृशा इव कर्पूर-
पूरच्छुरणं ददत इवेति विशिष्टवैशिष्ट्यन्यायेन संबन्धः । 'दिशासुन्दरीणाम्' इत्युभयत्र
संबध्यते । त्रिभुवनेति । बिना कामं कस्यापि सृष्टेरभावात् । कन्दलयन्तः पल्लव-
यन्तः इत्यनेन कामिनां कामातिशयजनकत्वं किरणानां व्यङ्ग्यम् । जलधरोन्मुक्त-
धारासाम्येन मेघाद्यप्रतिहतत्वं तेषु द्योत्यते ।
विदूषकः—
दिक्त्रवधूतंसो नभःसरोहंसः ।
निधुवनकन्दः प्रसरति चन्द्रः ॥
कुरङ्गिका—
शशधररचितगर्बो मानिनीमानघरहः ।
नवचम्पककोदण्डो मदनो जयति प्रचण्डः ॥
1 'ससजल' इति टीकाहृतः पाठः । _ 2 'दिसबधुतंसो' इति टीकापाठः । 3 'पसरइ'
इति टीकाभिमतः पाठः ।