Skip to content
SarvaKosh
Back to the archive

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

by महर्षि वात्स्यायन / यशोधर इन्द्रपाद

Report a copyright issue

DevanagariSanskritpublished353 pages

About this granth

The Kamasutra (कामसूत्रम्) of Vatsyayana is the classical Sanskrit treatise on kama, the pursuit of pleasure, treated as one of the three aims of life alongside dharma and artha. It is divided into seven adhikaranas, thirty-six adhyayas and sixty-four prakaranas, and its picture of the cultivated townsman, the sixty-four arts, courtship, marriage and household life makes it a major source for the social history of ancient India.

The contents list the seven books in order: general principles, sexual union, acquiring a wife, the wife's duties, other men's wives, courtesans, and occult practices.

This is No. 29 of the Kashi Sanskrit Series (Haridas Sanskrit Granthamala), printed by the Chowkhamba Sanskrit Series Office, Benares, in 1929 and edited by Gosvami Damodar Shastri. It gives the sutras with the complete Sanskrit commentary Jayamangala of Yashodhara, and a note on the second edition that refers to the earlier Nirnaya Sagar Press edition from Bombay. The copy comes from the Central Archaeological Library, New Delhi.

Text and commentary are in Sanskrit only; there is no Hindi translation.

Page 353Permalink

३४६ सटीके कामसूत्रे [ ७ अधिकरणे,

नन्तरमिति । विधानान्तरं, प्रयत्नान्निर्धारितदेशपुरुषापेक्षया निषिद्धाः॥५४॥

तदेव स्फुटयन्नाह—

न शास्त्रमस्तीत्येतेन प्रयोगो हि समीक्ष्यते ।
शास्त्रार्थान् व्यापिनो विद्यात्प्रयोगांस्त्वेकदेशिकान् ॥ ५५ ॥

न शास्त्रमस्तीति । व्याख्यातं चैतत्प्राक् ॥ ५५ ॥

यतश्च शास्त्रात् प्राधान्येन संक्षिप्य निबद्धं येन च तदुभयं दर्शयन्नाह—

बाभ्रवीयांश्च सूत्रार्थानगमय्य विमृश्य च ।
वात्स्यायनश्चकारेदं कामसूत्रं यथाविधि ॥ ५६ ॥

बाभ्रवीयांश्चेति । आगमय्य गुरुभ्यः, विमृश्य च स्वबुद्ध्या ॥ ५६ ॥

ययाऽवस्थया यदर्थं च विहितं तद्दर्शयन्नाह—

तदेतद् ब्रह्मचर्येण परेण च समाधिना ।
विहितं लोकयात्रार्थं न रागार्थोऽस्य संविधिः ॥ ५७ ॥

तदेतदिति । परेण च समाधिना समाहितेन, लोकयात्रार्थमिति । चातुर्वर्ण्ये गृहस्थव्यवहारार्थं न पुन रागार्थोऽस्य संविधिः ॥ ५७ ॥

कथं न रागार्थो भवतीत्याह—

रक्षन्धर्मार्थकामानां स्थितिं स्वां लोकवर्तिनीम् ।
अस्य शास्त्रस्य तत्त्वज्ञो भवत्येव जितेन्द्रियः ॥ ५८ ॥

रक्षन्निति । अस्य शास्त्रस्य यस्तत्त्वं वेत्ति सोऽवश्यं धर्मादीन् परस्परस्यानुपघातेन रक्षन्, लोकवर्तिनीमिति । इहलोकपरलोकमार्गशोभनाशोभनात् ॥ ५८ ॥

तदेतत्कुशलो विद्वान्धर्मार्थाववलोकयन् ।
नातिरागात्मकः कामी प्रयुञ्जानः प्रसिध्यति ॥ ५९ ॥

इति वात्स्यायनीये कामसूत्रे औपनिषदिके सप्तमेऽधिकरणे नष्टरागप्रत्यानयनं वृद्धियोगाश्चित्रयोगा द्वितीयोऽध्यायः ॥

समाप्तमौपनिषदिकं सप्तममधिकरणम् । समाप्तं वात्स्यायनसूत्रम् ।

तदेतत्कुशल इति । एतस्मिन् शास्त्रे कुशलो विद्वान् ज्ञानवान्, धर्मार्थाविति । धर्मार्थोभयं यथा कामेन न बाध्यते, कामीति । गृहस्थः, प्रयुञ्जान इति । शास्त्रार्थं, प्रसिद्ध्यति लोकेषु प्रमाणपुरुषो भवति नातिरागात्मकत्वादिति ॥

इति चित्रयोगाश्चतुःषष्टितमं प्रकरणम् ।

इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायामौपनिषदिके सप्तमेऽधिकरणे नष्टरागप्रत्यानयने वृद्धियोगाश्चित्रयोगा द्वितीयोऽध्यायः ।

समाप्तं सव्याख्यानं कामशास्त्रम् ।