Skip to content
SarvaKosh
Back to the archive

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

by महर्षि वात्स्यायन / यशोधर इन्द्रपाद

DevanagariSanskritpublished353 pages
Page 258Permalink

४ अध्याये ] दूतीकर्मप्रकरणम् । २५१

सेति। प्रगाढसद्भावयोः सम्प्रयोगं प्रत्यभिमुखीभूतत्वात् , संसृष्टयोश्च कृतसंसर्गयोर्द्रष्टव्या, किमर्थमित्याह—देशकालेति। अस्मिन्काले स्थाने वाऽनयोः समागम इति, प्रबोधनार्थमन्यतरेण प्रयुज्यते, आसा·मुक्तेष्वेव कर्मसु यथासम्भवं कर्म द्रष्टव्यम् ॥ ५२ ॥

निसृष्टार्था द्विविधा-तत्रैका परार्था या परेण प्रयुज्यते, द्वितीयाऽऽत्मार्था सा स्वयंदूतीति द्वितीयं नाम लभते, तस्या विधिमाह—

दौत्येन प्रहिताऽन्यया स्वयमेव नायकमभिगच्छेदजानती नाम तेन सहोपभोगं स्वप्ने वा कथयेद्, गोत्रस्खलिते भार्यां चास्य निन्देत्, तद्रूव्यपदेशेन स्वयमीर्ष्या दर्शयेद्, नखदशनचिन्हितं वा किं चिद्दद्याद्, भवतेऽहमादौ दातुं सङ्कल्पितेति चाभिदधीत, मम त्वद्भार्याया वाऽऽकाररमणीयतेति विविक्ते पर्य्यनुयुञ्जीत, सा स्वयंदूती ॥ ५३ ॥

दौत्येनेति। दूतक्रीयया, अन्यया नायिकया प्रहिता या स्वयमेव नायकमभिगच्छेत्कामयेत्सा स्वयंदूतीति संबन्धः, अभिगमोपायोपदेशमाह —अजानतो नामेति। अद्य स्वप्ने त्वयाऽहं किलापभुक्तेति, गोत्रस्खलितं निन्देद्, नैतदीदृशं तदस्मदीयं नाम भूतं येन त्वया भार्याऽऽहूयत इति, भार्यां चास्य निन्देद् युक्तमाह्लातुं यदेयं रूपवती गुणवती वा स्याद्, तद्रूपव्यपदेशेनेति। गोत्रस्खलितमपदिश्य स्वयमीर्ष्या दर्शयेत् सा हि दर्शिता कामं सूचयति, नखादिचिन्हितं भावसूचनार्थं, कचिदिति। ताम्बूलशेखरपूगादिकं ददती चानुरागख्यापनार्थमिदं ब्रूयादित्याह-भवतइति। आकाररमणीयतेति । रमणहिततेति, विविक्तं तमपर्य्यनुयुञ्जीत, किमयं ? प्रतिपत्स्यत इति ॥ ५३ ॥

तस्या विविक्ते दर्शनं प्रतिग्रहश्च ॥ ५४ ॥

तस्या इति। स्वयं दूत्याः, विविक्ते दर्शनं प्रतिग्रहश्चाभियोगश्चास्या·नायकेन कार्यं, यदि तामभिगच्छेद् ॥ ५४ ॥

नायिकाऽपि कदा चिदातुरा विश्वास्यामपश्यन्ती स्वयं दूत्यं प्रतिपद्यत इत्याह--

दूतीच्छलेनान्यामभिसन्धायस्याः सन्देशश्रावणद्वारेण नायकं साधयेत् तां चोपहन्यात्साऽपि स्वयंदूती ॥ ५५ ॥

दूतीच्छलेनेति। दूतीव्याजेनान्यं काश्चिदमिसंधाय; देवदत्तया प्रहिताऽहमिति, तस्या नायिकायाः सन्देशश्रावणद्वारेण नायकं साध-

Page 259Permalink

२५२ सटीक कामसूत्रे [ ५ अधिकरणे,

येत्, तां तु नायिकामुपहन्याद् दोषख्यापनेनेति, स्वयंदूती साऽपि स्वयं सिद्धये प्रवृत्तत्वान्निस्सृष्टार्था एव द्रष्टव्या ॥ ५५ ॥

एतया नायकोऽप्यन्यदूतश्च व्याख्यातः ॥ ५६ ॥

एतयेति। स्वयं दूत्या, दूतो व्याख्यातो त्रिविधः ॥ ५६ ॥

यदा सैव नायिका गूढत्वान्न स्वयं दूत्यं प्रतिपद्यते, तदा नायकं-तद्भार्ययाऽऽकारयेदित्याह--

नायकभार्यां मुग्धां विश्वास्यायन्त्रणयाऽनुप्रविश्य नायकस्य चेष्टितानि पृच्छेद्, योगाञ्शिक्षयेत्, साकारं मण्डयेत्, कोपमेनां ग्राहयेद्, एवं च प्रतिपद्यस्वेति श्रावयेत्, स्वयं चास्यां नखदशनपदानि निर्वर्तयेत्, तेन द्वारेण नायकमाकारयेत्सा मूढदूती॥५७॥

नायकभार्यां चेति । मुग्धां = मूढां, विश्वास्य = विश्वासं प्राप्य, अयन्त्रणयेति । तस्या आत्मनश्च विविक्ते वियोगावेगेनानुप्रविश्य चेष्टितानि पृच्छेत्, साऽभिमुखा विश्वासिता निर्विशेषा सती नायकचेष्टितानि कथयति, योगाञ् शिक्षयेदिति । बुद्ध्वा चेष्टितानि, तदनुरूपान् योगाञ् शिक्षयेद्, योगज्ञां नायको ज्ञास्यतीति, साकारं मण्डयेत्, स्वाभिप्रायसूचनार्थं, कोपमस्मिन्ग्राहयेद्, आत्मनोऽपीर्ष्यां दर्शयितुं; चपलोऽयमन्यस्यां सक्तः किमस्ति ? येन न कुप्यसीति, एवं च प्रतिपद्यस्व, यथाऽहमाचक्ष इति तां श्रावयेत्, तत्प्रतिपत्त्या नामानुकूल्यं ज्ञास्यतीति, स्वयं चास्यां भार्यायां नखदशनपदानि विदधीत संप्रयोगाभिलाषख्यापनार्थं, तेनेति । यथोक्तेन द्वारेण, नायकमाकारयेदाकारं ग्राहयेद्, येनासौ संप्रयोगार्थिनीति विद्यात्, सेति । भार्या मूढदूती, दूत्यर्थापरिज्ञानादियं पत्रहारीप्रकारा द्रष्टव्या ॥ ५७ ॥

तस्यास्तयैव प्रत्युत्तराणि योजयेत् ॥ ५८ ॥

तस्या इति । नायिकायाः, तयैवेति । मूढदूत्या, प्रत्युत्तराणि = प्रत्यभियोगान् योजयेत् ॥ ५८ ॥

'नायकोऽप्यन्यदूतश्च व्याख्यातः' इत्युक्तं, तत्रागोचरे लज्जायां वा यदि स्वयं दौत्यं न प्रतिपद्येत, तदा स्वभार्यया तामाकारयेदित्याह--

स्वभार्यां वा मूढां प्रयोज्य तया सह विश्वासेन योजयित्वा। तयैवाकारयेदात्मनश्च वैचक्षण्यं प्रकाशयेत्, सा भार्यादूती तस्यास्तयैवाकारग्रहणम् ॥ ५९ ॥

मूढाम् = अज्ञां, विज्ञा हि विकल्पयति, किमिति ? मामनया योजयतीति,

Page 260Permalink

४ अध्याये ] दूतीकर्मप्रकरणम् । २६३

विश्वासेन हेतुना योजयित्वा, तयैवाकारयेत् = स्वभार्ययाऽऽकारं ग्राहयेत्,
प्रकाशयेत्, तदैवात्मनश्च कलासु वैचक्षण्यं कलाकौशलं तयैव प्रकाश-
येत्, सा भार्यादूती पत्रहारीप्रकारा, तयैव = भार्यादूत्या, तस्याः = ना-
यिकायाः, आकारग्रहणं प्रत्युत्तरग्रहणमित्यर्थः ॥ ५९ ॥
यदि स्वभार्याया न गोचरस्तदा किं प्रतिपद्येतेत्याह--

बालां वा परिचारिकामदोषज्ञामदुष्टेनोपायेन प्रहिणुयात्, तत्र
स्रजि कर्णपत्रे वा गूढलेखनिधानं नखदशनपदं वा सा मूकदूती,
तस्यास्तयैव प्रत्युत्तरप्रार्थनम् ॥ ६० ॥

बालां वा परिचारिकां न यां कां चिद्, अदोषज्ञाम् = अधूर्ताम्, अदुष्टे-
नेति । बालक्रोडनकाद्युपायेन, नायिकागृहं प्रति प्रतिदिनं प्रहिणुयात् ,
तत्रेति । तस्यां जातपरिचयायां गूढलेखविधानं च वाचयित्वा, मां नाय-
कोऽप्याकारयतीति, सा प्रतिपद्यते, नखदशनपदानि च स्रजि कर्णपत्रे वा
निदध्यादिति योज्यं, सा मूकदूती, अर्थानभिलपनादियं पत्रहारी-
प्रकारा, तस्या नायिकायास्तयैव प्रत्युत्तरप्रार्थनं, यदि तया कर्ण-
पत्रात् पत्रं गृहीतं किमन्यन्मृगयस इति ॥ ६० ॥
यत्र बालाया अप्यगोचरस्तत्र किं प्रतिपद्येतेत्याह-

पूर्वप्रस्तुतार्थलिङ्गसम्बद्धमन्यजनाग्रहणीयं लौकिकार्थं द्व्यर्थं वा
वचनमुदासीनया श्रावयेत्सा वातदूती, तस्या अपि तयैव प्रत्यु-
त्तरप्रार्थनमिति तासां विशेषाः ॥ ६१ ॥

पूर्वप्रस्तुतेति । नायकयोर्यत्पूर्वप्रस्तुतं प्रवृत्तं कार्यं तस्य चिह्नं तेना-
भिज्ञानार्थं सम्बद्धं वचनम्, अन्यजनाग्रहणीयं, ताभ्यामेव तदर्थस्य
ग्रहणाद्, अत्र म्लेच्छितकविकल्पकला द्रष्टव्या, लौकिकार्थं च लोक-
विदितार्थं, द्व्यर्थमप्रस्तुतार्थस्यापि वाचकत्वाद्, उदासीनया न क्व
चित्प्रतिबद्धया, एवं च सा वातदूतीत्युच्यते, पत्रहारीप्रकारैव चेति,
तयैव प्रत्युत्तरप्रार्थनं, तया हि प्रश्नस्य प्रतिप्रश्नं याचेतेत्यर्थः, तासां-
विशेषा निसृष्टार्थाऽऽदीनां स्वयं दूत्यादयो विशेषाः, एवमन्येऽपि विशेषा-
यथासंभवमत्रैव द्रष्टव्याः, यथाहुर्बाभ्रवीयाः--
'पुत्रिका चित्ररूपाणि पशवः शुकसारिकाः ।
सर्वेषां गूढभावानां दूतकर्माणि कुर्वते, इति ॥ ६१ ॥
यास्तिस्रो दूत्य उक्तास्ताः का इत्याह--
भवन्ति चात्र श्लोकाः-
विधवेश्यानिका दासी भिक्षुकी शिल्पकारिका ।

Page 261Permalink

२५४ | सटीके कामसूत्रे | [ ५ अधिकरणे,

प्रविशत्याशु विश्वासं दूतीकार्यं च विन्दति ॥ ६२ ॥

प्रविशति गृहमिति शेषः, विश्वासं दूतीकार्यं च; बिन्दति=लभते ॥६२॥
सङ्क्षेपेण दूतीकर्माण्र्याह—

विद्वेषं ग्राहयेत्पत्यौ रमणीयानि वर्णयेत् ।
चित्रान्सुरतसम्भोगानन्यासामपि दर्शयेत् ॥ ६३ ॥

विद्वेषं ग्राहयेदिति । तस्य रूपादिप्रशंसाभिः 'अनुशयं ग्राहयेद्' इत्यादिना, रमणीयानि वर्णयेद् 'नायकस्य चरितमनुलोमतां कामितानि च कथयेद्' इत्यनेन, चित्रान्सुरतसम्भोगान्दर्शयेद् 'वृषतां चतुःषष्टिविज्ञतां संवर्णयेद्' इत्यनेन, अन्यासामपि तत्सखीनामग्रतो न केवलं नायिकाया यतस्तास्तस्यै कथयन्ति ॥ ६३ ॥

नायकस्यानुरागं च पुनश्च रतिकौशलम् ।
प्रार्थनां चाधिकस्त्रीभिरवष्टम्भं च वर्णयेत् ॥ ६४ ॥

नायकस्यानुरागं वर्णयेद् 'शृणु विचित्रम्'इत्यादिना, पुनश्च रतिकौशलं वर्णयेत्प्रधानत्वादस्य प्रार्थनां चाधिकं स्त्रीभिर्वर्णयेद्, श्लाघनीयया चास्य प्रच्छन्नं संयोगं भूतमभूतपूर्वं वा वर्णयेद्' इत्यनेन, अवष्टम्भं च नायिकाविषयं निश्चयं तदङ्कशयनं श्मशानशयनं वा, यदुक्तम्--
'शक्यमनेन मरणमप्यनुभवितुम्' इति ॥ ६४ ॥

प्रथमेऽधिकरणे पटुताऽऽदयो दूतगुणा उक्ताः, तेषां पटुता प्रधानमिति दर्शनार्थमाह--

असङ्कल्पितमप्यर्थमुत्सृष्टं दोषकारणात् ।
पुनरावर्तयेच्चैव दूती वचनकौशलात् ॥ ६५ ॥

इति श्रीवात्स्यायनीये कामसूत्रे पारदारिके पञ्चमेऽधिकरणे दूतीकर्माणि चतुर्थोऽध्यायः।

असंकल्पितमपीति । दोषकारणादिति । व्यावृत्तिकारणाद्, नायकेन सन् विकल्पितो न विचिन्तितः, दूती पुनस्तमावर्तयत्यभिमुखीकरोति, वचनकौशलात् पटुतायोगात् ॥ ६५ ॥

इति दूतीकर्माणि षट्चत्वारिंशं प्रकरणम् ॥

इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां पारदारिके पञ्चमेऽधिकरणे दूतीकर्माणि चतुर्थोऽध्यायः ।

५ अध्याये ] ईश्वरकामितप्रकरणम् । २५५

Page 262Permalink

५ अध्याये ] ईश्वरकामितप्रकरणम् । २५५

पञ्चमोऽध्यायः ।

ईश्वराणां परगृहप्रवेशाभावात्कामितं न सम्भवति, प्रायशस्तत्र दूतीकर्माधिक्रियत इति, तदनन्तरमीश्वरकामितमुच्यते, यदाह—

न राज्ञां महामात्राणां वा परभवनप्रवेशो विद्यते, महाजनेन हि चरितमेषां दृश्यतेऽनुविधीयते च ॥ १ ॥

महाजनेनेति । जनसमूहेनैतेषां चरितं दृश्यते सर्वदा तदनुगतत्वाद्, यदि दृष्टं तदा को दोष इत्याह--अनुविधीयते चेति ।

'यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः' इति ॥ १ ॥

तदेव दृष्टान्तेन दर्शयति—

सवितारमुद्यन्तं त्रयो लोकाः पश्यन्त्यनूद्यन्ति च, गच्छन्तमपि पश्यन्त्यनुप्रतिष्ठन्ते च ॥ २ ॥

सवितारमिति । सविता लोकेषु श्रेष्ठः, तमुद्यन्तं, पश्यन्तीति चरितदर्शनम्, अनूद्यन्ति च तस्मिंस्तूदते सुप्ताः प्रबुध्यन्त इति, चरितानुविधानं, गच्छन्तमपि देशान्तरं पश्यन्तीति, चरितदर्शनम्, अनुप्रतिष्ठन्ते च यथास्वं क्रियासु प्रवर्तन्त इति, चरितानुविधानम् ॥ २ ॥

तस्मादशक्यत्वाद्वर्हणीयत्वाच्च न ते वृथा किञ्चिदाचरेयुः ॥ ३ ॥

तस्मादिति । परगृहं प्रविश्य यत्परदाराभिगमनं तदशक्यं, महाजनेन गर्हणीयत्वाच्च, इतरोऽपि जनोऽनुविदध्यादिति, शिष्टानां कुत्सनीयं तस्मात्तदर्थं न ते किञ्चिदनुष्ठानमाचरेयुर्निष्फलत्वात्स्वपरिग्रहेष्वपि सुखसम्भवात् ॥ ३ ॥

अवश्यं त्वाचरितव्ये योगान्प्रयुञ्जीरन् ॥ ४ ॥

अवश्यं त्विति । अन्यकारणवशात्स्थानान्तरयायिनो वा रागवशादाचरितव्ये, योगानिति । प्रयोगान् ॥ ४ ॥

ते द्विविधाः—प्रच्छन्नाः प्रकाशाश्च, ईश्वरा अपि द्विविधाः-क्षुद्रा मुख्याश्च, तत्र क्षुद्रानधिकृत्य प्रच्छन्नानाह—

ग्रामाधिपतेरायुक्तकस्य हलोत्थवृत्तिकपुत्रस्य यूनो ग्रामीणयोषितो वचनमात्रसाध्याः, ताश्चर्षंण्य इत्याचक्षते विटाः ॥ ५ ॥

ग्रामाधिपतेरिति । ग्रामभोक्तुरायुक्तस्याधिकृतस्य, हलोत्थवृत्तिर्ग्रामकूटः, तस्य ग्रामीणैः कर्षणफलिका दीयन्ते, तस्य पुत्रस्य, यून इति । प्रत्येकं योज्यं, तेषामीश्वरत्वाद्धचनमात्रसाध्या नाभियोगमपेक्षन्ते, किं सर्वा एवेत्याह—ताश्चर्षंण्य इति ॥ ५ ॥

Page 263Permalink

२५६ सटीक कामसूत्रे [५ अधिकरणे,

ताभिः सह विष्टिकर्मसु कोष्ठागारप्रवेशे द्रव्याणां निष्क्रमण-
प्रवेशनयोर्भवनप्रतिसंस्कारे क्षेत्रकर्मणि कर्पासोर्णाऽतसीशणवल्क-
लादाने सूत्रप्रतिग्रहे द्रव्याणां क्रयविक्रयविनिमयेषु तेषु तेषु च
कर्मसु संप्रयोगः ॥ ६ ॥

ताभिरिति। चर्षणीभिः सह संप्रयोग इति, वक्ष्यमाणेन सम्बन्धः, अत्रोपायमाह—विष्टिकर्मस्विति। भक्तमात्रेण यानि पेषणकुट्टनरन्धनादीनि कार्याणि तानि विष्टिकर्माणि, कोष्ठागारप्रवेशे तत्रत्यं कर्म कर्तुं-प्रविष्टाभिः, द्रव्याणां धान्यादीनां कोष्ठागारात्निष्क्रमणे तत्र च प्रवेशे तत्र कर्म कर्तुं प्रविष्टाभिः, क्रियमाणे भवनप्रतिसंस्कारे गृहमण्डने क्षेत्रकर्मणि बीजानां रक्षणोत्पादनादौ, कर्पासस्योर्णाया अतसीशणवल्कलस्य च भाण्डागारात्सूत्रकर्तनाय दाने, सूत्रस्य च कर्तितस्य प्रतिग्रहे स्वीकारे कर्तनिकाभिः, द्रव्याणामिति। धान्यादीनां, क्रयविक्रयविनिमयेष्विति। क्रेतुं विक्रेतुं वा प्रविष्टाभिः, तेषु तेषु चेति। राजकुलप्रवेशहेतुषु ॥ ६ ॥

तथा व्रजयोषिद्भिः सह गवाध्यक्षस्य ॥ ७ ॥

गोपीभिर्गवाध्यक्षस्य दधिमथनादिकर्मसु ॥ ७ ॥

विधवाऽनाथाप्रव्रजिताभिः सह सूत्राध्यक्षस्य ॥ ८ ॥

स ह्यधिष्ठाय राजकीयसूत्राणि विधवाऽऽदिभिः कर्तनिकाभिः कर्तयति ॥ ८ ॥

मर्मज्ञत्वाद्रात्रावटने चाटन्तीभिर्नागरस्य ॥ ९ ॥

नगरे नियुक्तस्य दाण्डपाशिकस्य स्त्रीमर्मज्ञत्वाद्रात्रावटने चोदिताभिः ॥ ९ ॥

क्रयविक्रये पण्याध्यक्षस्य ॥ १० ॥

राजकीयपण्यानि क्रेतुं विक्रेतुं च नियुक्तस्य क्रेतृविक्रेतृस्त्रीभिः, संप्रयोग इति सर्वत्र योज्यम् ॥ १० ॥

मुख्यानधिकृत्य प्रच्छन्नानाह--

अष्टमीचन्द्रकौमुदीसुवसन्तकादिषु पत्तननगरखर्वटयोषितामीश्वरभवने सहान्तःपुरिकाभिः प्रायेण क्रीडा ॥ ११ ॥

अष्टमीति। कौमुदी कोजागरः, नगरखर्वटौ व्याख्यातौ, पत्तनादिकमुपलक्षणार्थं द्रोणमुखस्य, ईश्वरभवन इति। यस्य नगरादि भुज्यते तस्य भवने, आन्तःपुरिकाः = अन्तःपुरस्त्रियः ॥ ११ ॥

Page 264Permalink

५ अध्याये ] ईश्‍वरकामितप्रकरणम्। २५७

तत्र चापानकान्ते नगरस्त्रियो यथापरिचयमन्तःपुरिकाणां-
पृथक्पृथग्भोगावासकान्प्रविश्य कथाभिरासित्वा पूजिताः प्रपीता-
श्चोपप्रदोषं निष्क्राम्येयुः ॥ १२ ॥

तत्रेति। क्रीडायाम्, आपानकान्त इति। आन्तःपुरिकाभिः सर्वाभिः-
सह पेयं पीत्वा, तदन्ते विशेषविधिमाह—नगरस्त्रिय इति। अत्रापि
नगरखर्वटद्रोणमुखस्त्रियश्च, भोगावासकानिति। परिभोगप्रदेशान्,
कथाभिरासित्वेति। आन्तःपुरिकाभिः सह कथाभिः स्थित्वा, पूजिता-
आन्तःपुरिकाभिः, प्रपीता इति। प्रपीतमासां विद्यत इति मत्वर्थेऽकारः,
उपप्रदोषं=प्रदोषसमीपे, निष्क्राम्येयुर्दिनं राजभवनेऽतिवाह्य ॥ १२ ॥

तत्र प्रणिहिता राजदासी प्रयोज्यायाः पूर्वंसंसृष्टा तां तत्र
संभाषेत ॥ १३ ॥

तत्रेति। अष्टमीचन्द्रादिषु, प्रणिहिता राज्ञा प्रयुक्ता, प्रयोज्याया इति।
यामभिगन्तुमिच्छेत्, पूर्वसंसृष्टेति। पूर्वमेव या गृहं यात्वा संसर्गं कृत-
वती, तामिति। प्रयोज्यां राजभवने प्रविष्टां, भाषेत कुशलपूर्वकम् ॥ १३॥

रामणीयकदर्शने च योजयेत् ॥ १४ ॥

रामणीयकदर्शने च योजयेत्, चित्तहरणार्थम् ॥ १४ ॥

प्रागेव स्वभवनस्थां ब्रूयात् ॥ १५ ॥

प्रागेवेति। राजभवनप्रवेशात्, स्वभवनस्थां ब्रूयादौत्सुक्यवार-
णार्थम् ॥ १५ ॥

अमुष्यां क्रीडायां तव राजभवनस्थानानि रामणीयक़ानि
दर्शयिष्यामीति काले च योजयेत् ॥ १६ ॥

अमुष्यामिति। येयमेष्यति, काले प्रज्ञाते च योजयेत् ॥ १६ ॥
रामणीयकशेचनान्याह—

बहिः प्रबाळकुट्टिमं ते दर्शयिष्यामि मणिभूमिकां वृक्षवाटिकां
मृद्वीकामण्डपं समुद्रगृहप्रासादान्गूढभित्तिसंचारांश्चित्रकर्माणि क्री-
डामृगान्यन्त्राणि शकुनान्व्याघ्रसिंहपञ्जरादीनि च यानि पुरस्ता-
दर्णितानि स्युः ॥ १७ ॥

बहिरिति। प्रबालकुट्टिमं मणिभूमिकां स्फटिकाद्याकारां कृतकु-
ट्टिमां भूमिं, वृक्षवाटिकां=पुष्पफलसमृद्धां, मृद्वीकामण्डपं=द्राक्षाम-
ण्डपं, समुद्रगृहप्रासादानिति। धारागृहान् प्रासादांश्च, गूढभित्तिसञ्चा-
३३ का० सू०

Page 265Permalink

२५८ सटीके कामसूत्रे [ ५ अधिकरणे

रानिति । गूढं भित्तिमध्यगतत्वाद् जलसञ्चारो येषु समुद्रगृहेषु, प्रासा-
देष्वपि निष्कासनप्रवेशनलक्षणसञ्चारानिति योज्यं, यन्त्राणि सजी-
वानि निर्जीवानि घटितान्यन्यानि च यानि कौतुकानि, क्रीडार्थी ये
मृगाः, शकुनकांत्सादीन् , व्याघ्रपञ्जरान्व्याघ्राधिष्ठितान् , कस्याश्चि-
देव क चित्कौतुकमुत्पद्यत इत्यनेकोपदर्शनम् ॥ १७ ॥

एकान्ते च तद्गतमीश्वरानुरागं श्रावयेत् ॥ १८ ॥

एकान्त इति । ईश्वरः कृतसङ्केतस्तिष्ठति, तद्गतमिति । त्वय्यनुर-
क्त ईश्वर इति ॥ १८ ॥

संप्रयोगे चातुर्यं चाभिवर्णयेत् ॥ १९ ॥

संप्रयोगेऽपि स्वेश्वरेण सत्यायतिं प्रभावं वर्णयेद्, येनापरिभूता
वत्स्यसि ॥ १९ ॥

अमन्त्रश्रावं च प्रतिपन्नां योजयेत् ॥ २० ॥

अमन्त्रश्रावं च वर्णयेद् , आवाभ्यामन्यो न कश्चिज्जानातीति, प्रति-
पन्नां संप्रयोगं, योजयेदीश्वरेण ॥ २० ॥

अप्रतिपद्यमानायां विधिमाह—

अप्रतिपद्यमानां तु स्वयमेवेश्वर आगत्योपचारैः सान्त्वितां
रञ्जयित्वा संभूय च सानुरागं विसृजेत् ॥ २१ ॥

अप्रतिपद्यमानां त्विति । उपचारैरिति । स्रगादिभिः पानादिभिश्च
स्फीतैः सान्त्वितामभिमुखीकृताम्, उपचारैः स्त्रियो ह्रियन्त इत्यतिप्र-
तीतमेतद् , रञ्जयित्वा; तदनुकूलेन रतेन, सम्भूय चेति । दास्या नगर
स्त्रीभिः संयोज्य विसृजेत् , सानुरागमिति क्रियाविशेषणं, यथा जानाति
मय्यनुरक्त ईश्वर इति ॥ २१ ॥

प्रयोज्यायाश्च पत्युरनुग्रहोचितस्य दारान्नित्यमन्तःपुरमौ-
चित्यात्प्रवेशयेत् , तत्र प्रणिहिता राजदासीति समानं पूर्वेण ॥२२॥

अनुग्रहोचितस्येति । ईश्वरस्य यः प्रसादवित्तकः, स च प्रयोज्यायाः-
पतिः तस्य दाराः, नित्यमिति । प्रत्यहमन्तःपुरं प्रविशन्ति, औचित्या-
दिति । अनुग्रहोचितत्वादेव प्रवेशोऽपि तस्या उचित एवेति, तत्रेति ।
प्रविष्टायां प्रयोज्यायां, प्रणिहिता राजदासीत्यनेन पूर्वोक्तेन समानम्,
प्रयोगद्वयेऽप्यत्र प्रयोज्यानुप्रवेशस्य सुकरत्वाद्, दास्येव प्रयुक्ता ॥ २२ ॥

आन्तः पुरिका वा प्रयोज्या सह स्वचेटिकासंप्रेषणेन प्रीतिं-
कुर्यात् , प्रसूतप्रीतिं च सापदेशं दर्शने नियोजयेत् , प्रविष्टां पूजितां
पीतवतीं प्रणिहिता राजदासीति समानं पूर्वेण ॥ २३ ॥

Page 266Permalink

५ अध्याये ] ईश्वरकामितप्रकरणम् । २५९

आन्तःपुरिका चेति । या का चिदीश्वरप्रयुक्ता चेटिकासंप्रेषणेन प्रीतिं कुर्यादात्मनो विश्वासासंभवात्, प्रसृतप्रीतिं च प्रयोज्यां सापदेशं किंचित्कार्यमपदिश्य; तयैव चेट्या दर्शनेऽपि नियोजयेद्, यथा मां द्रष्टुमागच्छेदिति ॥ २३ ॥

यस्मिन्वा विज्ञाने प्रयोज्या विख्याता स्यात्तद्दर्शनार्थमान्तःपुरिका सोपचारं तामाह्वयेत्, प्रविष्टा प्रणिहिता राजदासीति समानं पूर्वेण ॥ २४ ॥

यस्मिन्वेति । गीततन्त्रीवाद्यादिविज्ञाने, विख्यातां=प्रवीणां, सोपचारमिति । वस्त्रादिदानपूर्वकमाह्वयेद्, अत्र च प्रवेशस्यासंभवाद् आन्तःपुरिका द्वितीया प्रयुक्ता ॥ २४ ॥

उद्भूतानर्थस्य भीतस्य वा भार्या भिक्षुकी ब्रूयादसावान्तःपुरिका राजनि सिद्धा गृहीतवाक्या मम वचनं श‍ृणोति, स्वभावतश्च कृपाशीला तामनेनोपायेनाधिगमिष्याम्यहमेव ते प्रवेशं कारयिष्यामि, सा च ते भर्तुर्महान्तमनर्थं निवर्तयिष्यतीति प्रतिपन्नां द्विखिरिति प्रवेशयेद्, आन्तःपुरिका चास्या अभयं दद्यादभयश्रवणाच्च संप्रहृष्टां प्रणिहिता राजदासीति समानं पूर्वेण ॥ २५ ॥

उद्भूतानर्थस्येति । अर्थप्रतिघाति यत्कार्यं तदुत्पन्नं यस्य, भीतस्य चेति । यो राजकुलाद्भीतस्तस्य जायां भिक्षुकी राजप्रणिहिता ब्रूयाद्, अस्मिन्प्रयोगे तृतीयाऽपरा प्रयुक्ता, साऽप्येवंविधं कार्यं बुद्ध्वा; प्रयोज्यामान्तःपुरिकायां योजयति, राजनि सिद्धा प्रसादवित्तिका, गृहीतवाक्येति । सा यदाह तद्राजा करोति, मम वचनं शृणोतीत्यात्मनो गृहीतवाक्यतामाह-स्वभावतः कृपाशीलेति । उत्कोचाभावं दर्शयति, तामनेनेति । तदानीं बुद्धिविकल्पितेनोपायेन, कथं मम ? प्रवेश इति चेदाह—अहमेवेति । अनर्थमित्युपलक्षणार्थम्, भयं च निवर्तयिष्यति, द्विखिरिति । प्रवेशयेत्पश्चाज्जातपरिचया स्वयमेव प्रवेक्ष्यति, अभयमस्यै दद्याद्, अभयं निवेदितवत्यै संप्रहृष्टामनुद्विग्नां सम्भाषेत ॥ २५ ॥

एतया वृत्त्यर्थिनां, महामात्राभितप्तानां, बलाद्विगृहीतानां, व्यवहारे दुर्बलानां, स्वभोगेनारसंतुष्टानां, राजनि प्रीतिकामानं, राजभजनेषु व्यक्तिमिच्छतां, सजातैर्बाध्यमानानां, सजातान्बाधितुकामानां, सूचकानाम्, अन्येषां कार्यवशिनां, जाया व्याख्याताः॥२६॥

Page 267Permalink

२६० सटीके कामसूत्रे [५ अधिकरणे,

एतयेति। उद्भूतानर्थभीतजायया, वृत्यर्थिनां = जीवनार्थिनाम्, महामात्राभितप्तानां = महामात्रैः प्रभवद्भिः पीडितानाम्, बलाद्विगृहीतानां राजवल्लभैर्व्यवहारे दुर्बलानां न्यायबलाभावात्, स्वभोगेन तावन्मात्रेणासन्तुष्टानांमधिकमिच्छतां, राजनि प्रीतिकामानं क्वचित्परिचयं मम मा कार्षीदिति, बाह्यजनेषु, व्यक्तिं = प्रसिद्धिम्, इच्छतां, राज्ञः प्रसाद्योऽयमिति, सजातैः = दायादैः, सूचकानाम् = उद्घोषकाणां, कार्यवशिनामिति। कार्यार्थिनां, जाया व्याख्याताः, अत्रापि भिक्षुकी ब्रूयादिति योज्यम्, एते प्रच्छन्नयोगा अत्याजितस्वकुलासु स्त्रीषु ॥ २६ ॥

अन्येन वा सह संसृष्टां सङ्ग्राह्य; प्रयोज्यां दास्यमुपनीतां क्रमेणान्तःपुरं प्रवेशयेत् ॥ २७ ॥

अन्येनेति। येन केन चित्संसृष्टां कृतसंसर्गा, संग्राहेति। नागरकेण संग्रहविधिना ग्राहयित्वा, दास्यमुपनीतामिति। प्रकाशविनष्टाया वेश्याविशेषत्वाद्, तां सामान्यस्त्रियं क्रमेणान्तःपुरं प्रवेशयेद्, न झटिति समनन्तरमेव मा भूदेतत्कृतः प्रयोग इति ॥ २७ ॥

प्रणिधिना चायातिमस्याः सन्दूष्य राजनि विद्विष्ट इति कलत्रावग्रहोपायेनैनामन्तःपुरं प्रवेशयेदिति प्रच्छन्नयोगाः, एते राजपुत्रेषु प्रायेण ॥ २८ ॥

प्रणिधिना = चारेण, सन्दूष्य सद्भूतेनैव दोषेण, अन्यथा-अदुष्टदूषणमधर्माय भवति, एवं चास्य कलत्रावग्रहो न दोषाय, एतद्योगद्वयं त्याजितस्वकुलासु, एते राजपुत्रेषु प्रायेण न तु राज्ञः, तस्य मण्डले प्रतिष्ठितत्वात्कादाचित्काः स्युः ॥ २८ ॥

ननु परभवनप्रवेशेनापि प्रच्छन्नयोगाः सम्भवन्ति, यदा दूत्या प्रयोज्यां सङ्केत्य प्रच्छन्नः प्रविशति, न च तदानीं चरितं महाजनेन दृश्यतेऽनुविद्यीयते चेत्यत्राह—

न त्वेव परभवनमीश्वरः प्रविशेत् ॥ २९ ॥

प्रविशेत्प्रच्छन्नोऽपीत्यर्थः ॥ २९ ॥

अत्र पूर्ववृत्तं दोषं दर्शयति —

आभीरं हि कोट्टराजं परभवनगतं भ्रातृप्रयुक्तो रजको जघान, काशिराजं जयत्सेनमश्वाध्यक्ष इति ॥ ३० ॥

आभीरं हीति। गूर्जराते कोट्टं नाम स्थानं, तस्य राजानमाभीरनामानं, परभवनगतमिति। श्रेष्ठिवसुमित्रस्य भार्यामधिगन्तुं तद्भवनगतं-

Page 268Permalink

५ अध्याये ] ईश्वरकामितप्रकरणम् । २६१

रजको राज्यार्हेण तद्भ्रात्रा प्रयुक्तो जघान, काशिराजं चेति । काशीस्थं-
राजानं जयत्सेनमश्वाध्यक्षस्तद्भार्यामधिगन्तुं तद्भवनगतं जघान ॥३०॥

प्रकाशकास्तु योगा राज्ञः प्रायेण द्रष्टव्या यदाह—

प्रकाशकामितानि तु देशप्रवृत्तियोगात् ॥ ३१ ॥

देशप्रवृत्तियोगादिति । यो यस्मिन्देशे समाचारः पूर्वैः स्थापितस्त-
द्योगादिति, अतो दृश्यमानान्यपि कामितानि महाजनेन नानुविधी-
यन्ते, राज्ञामेव तत्राधिकारात् ॥ ३१ ॥

प्रत्ता जनपदकन्या दशमेऽहनि किंचिदौपायनिकमुपगृह्य
प्रविशन्त्यन्तःपुरमपभुक्ता एव विसृज्यन्त इत्यान्ध्राणाम् ॥ ३२ ॥

प्रत्ता इति । ऊढा औपायनिकमुपायप्रयोजनं वस्त्रादि, उपभुक्ता राज्ञा
संप्रयुक्ताः, विसृज्यन्ते त्यक्ष्यन्ते, इत्यान्ध्राणां प्रवृत्तिः ॥ ३२ ॥

महामात्रेश्वराणामन्तःपुराणि निशि सेवार्थं राजानमुपग-
च्छन्ति वात्सगुल्मकानाम् ॥ ३३ ॥

महामात्राणां य ईश्वरा मुख्यास्तेषामन्तःपुराणि स्त्रियः, सेवार्थ-
मिति । सेवां कर्तुं, वात्सगुल्मकानामिति । दक्षिणापथे सोदर्यौ राजपुत्रौ
वत्सगुल्मौ ताभ्यामध्यासितो देशो वत्सगुल्मक इति प्रतीतः, तत्र
भवानामिदं प्रवृत्तिः ॥ ३३ ॥

रूपवतीर्जनपदघोषितः प्रीत्यपदेशेन मासं मासार्धं वा वास-
यन्त्यन्तःपुरिका वैदर्भाणाम् ॥ ३४ ॥

रूपवतीरिति । प्रशंसायां मतुप् , प्रीत्यपदेशेनेति । परस्परस्नेहभावः-
प्रीतिस्तस्यापदेशः, संप्रयोगस्तु प्रयोजनं, वासयन्ति, अन्तःपुर एवान्तः-
पुरिकाः स्त्रियः, वैदर्भाणामिति । कालाञ्जराद्दक्षिणेन विदर्भो नामदेशः,
तत्र भवानाम् ॥ ३४ ॥

दर्शनीयाः स्वभार्याः प्रीतिदायमेव महामात्रराजेभ्यो ददत्य-
परान्तकानाम् ॥ ३५ ॥

प्रीतिदायमिति । प्रीत्या यत् स्वत्वनिवृत्त्या दीयते ॥ ३५ ॥

राजक्रीडार्थं नगरस्त्रियो जनपदस्त्रियश्च सङ्घ एकशश्च राज-
कुलं प्रविशन्ति सौराष्ट्रकाणामिति ॥ ३६ ॥

राजक्रीडार्थमिति । प्रवेशस्य निमित्तं, संप्रयोगस्तु प्रयोजनं, नग-
रं यत्र राजधानी तत्र स्त्रियो नगरस्त्रियः, ततो बाह्या जनपदस्त्रियः,

ईश्वरकामितं सप्तचत्वारिंशं प्रकरणम् ॥

Page 269Permalink

२६२ सटीक कामसूत्रे [ ५ अधिकरणे,

संघश इति। संभूय, एकश इति। एकैकशश्च सौराष्ट्रकाणामिति ॥३६॥
उक्तमनुक्तं चोपसंहरन्नाह—

श्लोकावत्र भवतः—
एते चान्ये च बहवः प्रयोगाः पारदारिकाः।
देशे देशे प्रवर्तन्ते राजभिः संप्रवर्तिताः ॥ ३७ ॥

एते चेति। अन्ये चैवं प्रकाराः, पारदारिकाः = परदारप्रयोजनाः, एते देशे देशे प्रवर्तन्ते, पूर्वराजभिः संप्रवर्तितत्वात् ॥ ३७ ॥
अत्र प्रांतष्टेयमाह—

न त्वेवैतत् प्रयुञ्जीत राजा लोकहिते रतः।
निगृहीतारीषड्वर्गस्तथा विजयते महीम् ॥ ३८ ॥

इति श्रीवात्स्यायनीये कामसूत्रे पारदारिके पञ्चमेऽधिकरण ईश्वरकामितं पञ्चमोऽध्यायः।

न त्वेवैतदिति। एतदिति, ईश्वरकामितम्, प्रवर्त्ततामिति, न प्रयुञ्जीत, लोकहिते रतः, यस्तु नैवं; स महीपतिर्न विजयते, अनिगृहीतारीषड्वर्गत्वाद्, विजयस्य कारणं कामक्रोधलोभमानमदहर्षजय इति ॥३८॥
ईश्वरकामितं सप्तचत्वारिंशं प्रकरणम् ॥

इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां पारदारिके पञ्चमेऽधिकरण ईश्वरकामितं पञ्चमोऽध्यायः।


षष्ठोऽध्यायः।

यथेश्वराणां परभवनप्रवेशो नास्ति तथाऽऽन्तःपुरिकाणां, नागरकाणां चान्तःपुरवेशः, इत्यान्तःपुरिकाणां नागरकाणां चोभयथाऽप्यन्तःपुरिकावृत्तमुच्यते, तत्र पूर्वमधिकृत्याह—

नान्तःपुराणां रक्षणयोगात्पुरुषसंदर्शनं विद्यते पत्युश्चैकत्वादनेकसाधारणत्वाच्चातृप्तिस्तस्मात्तानि योगत एव परस्परं रञ्जयेयुः ॥ १ ॥

नान्तःपुराणामिति। तात्स्थ्यादाप्तःपुरिकाणामित्यर्थः, तासां पतिरस्यैवैति चेदाह—पत्युश्चैकत्वादिति। एकोऽपि तृप्तिं कुर्यादिति चेदाह—अनेकसाधारणत्वाच्चेति। स हि तासां साधारणः कथं ? तृप्तिं कुर्याद्, योगतः, परस्परमिति। या रतिमन्तरस्यां कुर्यात्तस्य(मन्येति ॥ १ ॥

६ अध्याये ] आन्तःपुरिकाप्रकरणम् । २६३

Page 270Permalink

६ अध्याये ] आन्तःपुरिकाप्रकरणम् । २६३

प्रयोगमाह—

धात्रेयिकां सखीं दासीं वा पुरुषवदलंकृत्याकृतिसंयुक्तैः कन्दमूलफलावयवैरुपद्रव्यैर्वाऽऽत्माभिप्रायं निवर्तयेयुः ॥ २ ॥

धात्रेयिकामिति । पुरुषवदलंकृत्येति । तत्र हि पुरुषवद् बुद्ध्याऽति मात्रे भावे तृप्तिरतिशयितवती भवति, आकृतिसंयुक्तैरिति । पुरुषेन्द्रिय-संस्थानवद्भिः, कन्दमूलफलावयवैरिति । तत्र कन्दा आलुककदल्यादीनाम्, मूलं तालकेतकीनाम्, फलमलाबुककर्कटिकाऽऽदीनाम्, एतानि संशोध्य ग्राह्याणीति, अवयवग्रहणे फलं दर्शयति—आत्माभिप्रायमिति । रागभावं, निवर्तयेयुः, केवलं श्रद्धाविनोदनं तथाविधकामस्याप्राधान्यात् ॥ २ ॥

पुरुषप्रतिमा अव्यक्तलिङ्गाश्चाधिशयीरन् ॥ ३ ॥

पुरुषप्रतिमाः पुरुषदेहान्, अव्यक्तलिङ्गा अजातश्मश्रुत्वात्स्त्रीरूपाभासानित्यर्थः ॥ ३ ॥

एकोऽपि पतिः तृप्तिं कुर्याद्यः कामार्तासु कृपाशीलः, यथा प्राच्यानामित्याह—

राजानश्च कृपाशीला विनाऽपि भावयोगादायोजितोपद्रव्यायावदर्थमेकया रात्र्या बह्वीभिरपि गच्छन्ति, यस्यां तु प्रीतिर्वासकऋतुर्वा तत्राभिप्रायतः प्रवर्तन्त इति प्राच्योपचाराः ॥ ४ ॥

राजान इति । विनाऽपि भावयोगादिति । अजातसंप्रयोगेच्छा अपि, आयोजितोपद्रव्या इति । कट्यामाबद्धकृत्रिमसाधनाः, यावदर्थं = यावत्तृप्तिं, बह्वीभिरपि स्त्रीभिः सह गच्छन्ति संप्रयोगमित्यर्थः, विशेषमाह—यस्यां त्विति । प्रीतिः=सहजः स्नेहः, वासकः=परिपाट्या शयनम्, ऋतुः=अपत्यार्थं, तत्र = तस्याम्, अभिप्रायतो भावेनेत्यर्थः, अयमन्तःपुरविषये योग उक्तः ॥ ४ ॥

स्त्रीयोगेणैव पुरुषाणामप्यलब्धवृत्तीनां वियोनिषु विजातिषु स्त्रीप्रतिमासु केवलोपमर्दनाच्चाभिप्रायनिवृत्तिर्व्याख्याता ॥ ५ ॥

स्त्रीयोगेणैवेति । यथा स्त्रीणां क्व चित्पुरुषबुद्धिमुत्पाद्याभिप्रायनिवृत्तिरेवं पुरुषाणामपि केषां चिदित्याह—अलब्धवृत्तीनामिति । ये स्त्रियं न प्राप्नुवन्ति, वियोनिषु = बालोरुकक्षादिषु, विजातिषु = एडीबडवाऽऽदिषु, स्त्रीप्रतिमासु = स्त्रीप्रतिकृतिषु, समुत्कीर्णस्त्रीलिङ्गादिषु, केवलोपमर्दनाच्चेति । सिंहाक्रान्तेन करेण वा साधनस्य मन्थनादेव केवलान्,

Page 271Permalink

२६४ सटीके कामसूत्रे [ ५ अधिकरणे,

यथोक्तम्—

'भुवि विन्यस्तहस्ताभ्यामवष्टभ्योत्कटासनः।
बाहुमध्ये विमृद्गीयात्सिंहान्तेष्वयं विधिः' ॥

अस्थानेषु शुक्रविसृष्टिविधर्म इति चेत्, स्वप्नाभिमाने कथं ? तत्र प्रायश्चित्तविधानादिति चेदिहापि विहितत्वात् ॥ ५ ॥

बहिर्विषयमाह—

योषावेषांश्च नागरकान्प्रायेणान्तःपुरिकापरिचारिकाभिः सह प्रवेशयन्ति ॥ ६ ॥

योषावेषानिति । स्त्रीवेशान्, परिचारिकाभिरिति। प्रदोषे परिचरितुमन्तःपुरं प्रविशन्तीभिः ॥ ६ ॥

तेषामुपावर्तने धात्रेयिकाश्चाभ्यन्तरसंसृष्टाः, आयतिं दर्शयन्त्यः प्रयतेरन् ॥ ७ ॥

तेषामिति। नागरकाणामुपावर्तनेऽभिमुखीकरणे प्रयतेरन्, आभ्यन्तरसंसृष्टा इति। तासु नागरकाणां यथार्थबुद्धिः, न बाह्यासु, आयतिमिति। आगामि फलमेवं भविष्यतीति ॥ ७ ॥

सुखप्रवेशितामपसारभूमिं, विशालतां वेश्मनः, प्रमादं रक्षिणामनित्यतां परिजनस्य, वर्णयेयुः ॥ ८ ॥

अपसारभूमिं अपक्रमणमार्गं, विशालामिति । विस्तीर्णत्वान्न ज्ञायते क किं वर्तत इति, प्रमादम् = असावधानताम्, अनित्यतामिति । राजपरिजनो न नित्यं संनिहित इति ॥ ८ ॥

न चासद्भूतेनार्थेन प्रवेशयितुं जनमावर्तयेयुर्दोषात् ॥ ९ ॥

असद्भूतेनेति । विना भावेन, सुप्रवेशितां विना च, जनमिति । नागरकम्, आवर्तयेयुरभिमुखीकुर्युः, दोषादिति । विना भावमदुष्टदूषणे, आत्मनः सुप्रवेशिताद्यभावे च जनस्यापकारः ॥ ९ ॥

द्वितीयं वृत्तमधिकृत्याह—

नागरकस्तु सुप्रापामप्यन्तःपुरमपायभूयिष्ठत्वान्न प्रविशेदिति वात्स्यायनः ॥ १० ॥

अपायभूयिष्ठत्वादिति । बहूनां विनाशकारणानां संनिधानात् ॥१०॥

अत्र विशेषमाह—

सापसारं तु प्रमदवनावगाढं विभक्तदीर्घकक्षमलपप्रमत्तरक्षकं-

६ अध्याये ] आन्तःपुरिकावृत्तप्रकरणम् । २६३

Page 272Permalink

६ अध्याये ] आन्तःपुरिकावृत्तप्रकरणम् । २६३

प्रोषितराजकं कारणानि समीक्ष्य बहुश आहूयमानोऽर्थबुद्ध्या कक्षाप्रवेशं च दृष्ट्वा ताभिरेव विहितोपायः प्रविशेत् ॥ ११ ॥

प्रमदवनं=क्रीडावनं, तेनावगाढं गहनं, कक्षाः = प्रकोष्ठकानि, प्रोषितराजकं राज्ञोऽन्यत्र गतत्वात् , कारणान्यभिगमनस्य, बहुश आहूयमानोऽर्थबुद्ध्या, कक्षाप्रवेशं दृष्ट्वा; अनेन मार्गेण मया प्रवेष्टव्यमिति, ताभिरिति। या उपावर्तयन्ते, विहितोपाय इति। एवं वेषोऽस्मिन्काले, गृहीत्वा चेममिति ॥ ११ ॥

शक्तिविषये च प्रतिदिनं निष्क्राम्येत् ॥ १२ ॥

शक्तिविषये चेति। येन प्रतिदिनं निष्क्रमितुं शक्तिस्तस्मिन्सति ॥ १२ ॥ इदमुपावर्तनस्य वृत्तं, यस्तु स्वयमुपावर्तते तस्य वृत्तमाह-

बहिश्च रक्षिभिरन्यदेव कारणमपदिश्य संसृज्येत ॥ १३ ॥

बाह्या ये रक्षिणस्तैः सह, अन्यदेवेति। अमुकसम्बन्धेन मम त्वं भ्राता भगिनीपतिर्वेति, संसृज्येत = प्रीतिं कुर्याद्, येन तेषां तन्निवारणे शैथिल्यं स्यात् ॥ १३ ॥

अन्तश्चारिण्यां च परिचारिकायां विदिताथार्यायां सक्तमात्मानं रूपयेत्, तदलाभाच्च शोकम् ॥ १४ ॥

विदिताथार्यायामिति। मध्यनुरक्त इति, विदिताथार्यायां, सक्तं निरूपयेत्प्रकाशयेदाकारसंवर णार्थम्, एवं च दार्थ्यार्थमाह - तदलाभादिति। परिचारिकाया अप्राप्तेः शोकं निरूपयेदित्येव ॥ १४ ॥

अन्तःप्रवेशिनीभिश्च दूतीकल्पं सकळमाचरेत् ॥ १५ ॥

अन्तःप्रवेशिनीभिश्चेति। बाह्याभिरन्तःपुरप्रवेशनशीलाभिः स्त्रीभिः कारणभूताभिः, दूतीकल्पं = दूतीविधानं यथोक्तम् ॥ १५ ॥

राजप्रणिधींश्च बुध्येत ॥ १६ ॥

राजप्रणिधींश्चेति। राजचरान् बुध्येतात्मसंरक्षणार्थं, यत्र यस्मिन्प्रदेशे दूरस्थाया एव दर्शनयोगः ॥ १६ ॥

दूत्यास्त्वसञ्चारे यत्र गृहीताकारायाः प्रयोज्याया दर्शनयोगस्तत्रावस्थानम् ॥ १७ ॥

गृहीताकाराया इति। अन्यथा सत्यपि दर्शनयोगेऽवस्थानं निष्फलमेव स्यात् ॥ १७ ॥

तस्मिन्नपि तु रक्षिषु परिचारिकाव्यपदेशः ॥ १८ ॥

तस्मिन्नपि तु प्रदेशे स्थितेन रक्षिषु परिचारिकाव्यपदेशः कार्यः, यस्यामात्मा सक्तो निरूपितः ॥ १८ ॥

३४ का० सू०

Page 273Permalink

२६६ सटीक कामसूत्रे [ ५ अधिकरणे,

चक्षुरनुबध्नत्यामिङ्गिताकारनिवेदनम् ॥ १९ ॥

चक्षुरनुबध्नत्यामिति। पुनः पुनः पश्यन्त्यां प्रयोज्यायाम्, इङ्गिताकारनिवेदनं भावसूचनार्थम् ॥ १९ ॥

यत्र संपातोऽस्यास्तत्र चित्रकर्मणस्तद्युक्तस्य व्यर्थानां गीतवस्तुकानां क्रीडनकानां कृतचिह्नानामापीडकस्याङ्गुलीयकस्य च निधानम् ॥२०॥

सम्पात इति। यत्रोद्देशे सम्यग्गमनं, तद्युक्तस्येति। प्रयोज्यायुक्तस्य, सानुरागमात्मानं फलके भित्तौ वा विलिख्य निदध्यात्, द्यर्थानामिति। यानि प्रयोज्याविषयमनुरागं सूचयन्ति, गीतवस्तूनां खण्डगाथावर्णादीनां पत्रस्थानां, क्रीडनकानां पुत्रिकाकन्दुकादीनां कृतचिह्नानाम्, आपीडकस्य नखदशनपदाङ्कितस्य, अङ्गुलीयकस्य स्वनामाङ्कितस्य ॥२०॥

प्रत्युत्तरं च तया दत्तं प्रपश्येत्, ततः प्रवेशने यतेत ॥२१॥

प्रत्युत्तरं चेति। तयाऽन्यया वा दत्तं प्रकर्षेण पश्येत्, तत इति। ल्यब्लोपे पञ्चमी, सानुरागं प्रत्युत्तरं दृष्ट्वेत्यर्थः, यत्नः क्रमणम् ॥ २१ ॥

प्रवेशोपायमाह—

यत्र चास्या नियतं गमनमिति विद्यात्तत्र प्रच्छन्नस्य प्रागेवावस्थानम् ॥ २२ ॥

यत्रेति। उद्यानादौ, प्रच्छन्नस्य गूढस्यावस्थानं प्राङ् नायिकागमनात्, तदानीं गमनं तु लक्षितं भवति ॥ २२ ॥

रक्षिपुरुषरूपो वा तदनुज्ञातो वेलायां प्रविशेत् ॥ २४ ॥

रक्षिपुरुषरूपो चेति। रक्षिपुरुषव्यञ्जनः, तदनुज्ञातो रक्षिणाऽनुमतो वेलायां रात्रौ ॥ २३ ॥

आस्तरणप्रावरणवेष्टितस्य वा प्रवेशनिर्हारौ ॥ २३ ॥

आस्तरणं = कुथातूलकादि, आवरणं = कम्बलादि, तद्वेष्टितस्य तस्य स्त्रिया पुरुषेण वा गृहीतस्य, निर्हारः = निष्क्रमणम् ॥ २४ ॥

पुटापुटैर्योगैर्वा नष्टच्छायारूपः ॥ २५ ॥

पुटापुटैरिति। मञ्जूषायां सपिधानायां प्रक्षिप्तस्य योगैरन्तर्धानयोगैराम्नायागतैः ॥ २५ ॥

तत्रायं प्रयोगो नकुलहृदयं चोरकतुम्बीफलानि सर्पाक्षीणि चान्तर्धूमेन पचेत्, ततोऽनेन समभागेनोदकेन पेषयेदनेनाभ्यक्तनयनो नष्टच्छायारूपश्चरति ॥ २६ ॥

Page 274Permalink

६ अध्याये ] आन्तःपुरिकावृत्तप्रकरणम् । २६७

नष्टच्छायारूपश्चरतीति । कश्चिद्रूपमेव तिरस्करोति न च्छायां, यैरुभयमपि न दृश्यते ॥ २६ ॥

रात्रिकौमुदीषु च दीपिकासंवाधे सुरङ्गया वा ॥ २७ ॥

रात्रिकौमुदीषु चेति । सुखरात्रिकासु वा, दीपिकासंबाधे गृहीतदीपिकानां चेटिकानां समूहे, तद्वेषधारिणः, सुरङ्गया वा, अन्तःपुरोद्भिन्नया, प्रवेशनिर्हारौ सर्वत्र योज्यौ ॥ २७ ॥

प्रवेशनिर्हारयोरेतद्वक्ष्यमाणमुपायान्तरमाह—
भवन्ति चात्र श्लोकाः —

'द्रव्याणामपि निर्हारे यानकानां प्रवेशने ।
आपानकोत्सवार्थेऽपि चेटिकानां च संभ्रमे ॥ २८ ॥

द्रव्याणामिति । सारदार्वादीनां, यानकानां = युग्यादीनां, कर्मकरैर्निर्हारे प्रवेशने च तन्मध्यवर्तिनोऽपि प्रवेशनं निष्क्रमणं चेति, सर्वत्र योज्यम्, आपानकमुत्सवः, चार्थेऽपिः, चेटिकानां च, संभ्रमे = इतस्ततोगमने ॥ २८ ॥

व्यत्यासे वेश्मनां चैव रक्षिणां च विपर्यये ।
उद्यानयात्रागमने यात्रातश्च प्रवेशने ॥ २९ ॥

व्यत्यास इति । आन्तःपुरिकाणां वेश्मपरिचये कर्मकरवेशस्य, रक्षिणां विपर्यये द्वारान्तरगमने, तथा हि-न ज्ञायते क आत्मीयः कः-पर इति, यात्रातश्चेति । चकारादुद्यानतश्च ॥ २९ ॥

दीर्घकालोदयां यात्रां प्रोषिते चापि राजनि ।
प्रवेशने भवेत्प्रायो यूनां निष्क्रमणं तथा ॥ ३० ॥

दीर्घकालोदयामिति । दीर्घकाल उदयः फलं यस्याः, शत्रुर्न यानमात्रसाध्यो भवतीत्यर्थः । ॥ ३० ॥

ननु या नैवंविधा आन्तःपुरिकास्ताभिर्मन्त्रो भिद्येतेत्याह—

परस्परस्य कार्याणि ज्ञात्वा चान्तःपुरालयाः ।
एककार्यास्ततः कुर्युः शेषाणामपि भेदनम् ॥ ३१ ॥

परस्परस्येति । कार्याणि रहस्यानि, आन्तःपुरिकाः, एककार्या इति । एकस्या यत्कार्यं तत्सम्भूयास्माभिर्निष्पाद्यमिति, कृतसङ्गानां, शेषाणां भेदनं कुर्युर्यथा ता अपि समानधर्मिण्यः स्युः ॥ ३१ ॥

किं फलमिति चेदाह—

दूषयित्वा ततोऽन्योन्यमेककार्यार्पणे स्थिरः ।
अभेद्यतां गतः सद्यो यथेष्टं फलमश्नुते ॥ ३२ ॥

Page 275Permalink

२६८ सटीक कामसूत्रे [ ५ अधिकरणे,

दूषयित्वेति। एककार्यार्पण इति। एकं चारित्रखण्डनाख्यं कार्यं परस्परस्यार्पयति य आन्तःपुरिकासंघः, अभेद्यतां गतो मन्त्रभेदाभावादेवं च स्थिरः ॥ ३२ ॥

इदमान्तःपुरिकावृत्तं प्रच्छन्नमुक्तम्, प्रकाशं तु देशप्रवृत्त्या, यदाह—

तत्र राजकुलचारिण्य एव लक्षण्यान्पुरुषानन्तःपुरं प्रवेशयन्ति नातिसुरक्षत्वादपरान्तिकानाम् ॥ ३३ ॥

तत्रेति। राजकुलचारिण्यो या राजकुले चरन्ति स्त्रियः, लक्षण्यानिति। ये स्त्र्यादिलक्षणे साधवस्तज्ज्ञास्तानित्यर्थः, नातिसुरक्षत्वादिति। नात्यन्तं स्वा राजकीयास्तत्र रक्षन्ति ॥ ३३ ॥

क्षत्रियसंज्ञकैरन्तःपुररक्षिभिरेवार्थं साधयन्त्याभीरकाणाम् ॥ ३४॥

क्षत्रियसंज्ञकैरिति। नान्यै रक्षिभिः, तेषां तत्राभ्यन्तरप्रवेशाद्, अर्थमिति। सम्प्रयोगं साधयन्ति राजकुलचारिण्य इत्येव ॥ ३४ ॥

प्रेष्याभिः सह तद्वेषान्नागरकपुत्रान्प्रवेशयन्ति वात्सगुल्मकानाम् ॥ ३५ ॥

प्रेष्याभिरिति। दासीभिः, तद्वेषान् = दासीवेषान्, प्रवेशयन्ति, राजकुलचारिण्य इति वर्तते ॥ ३५ ॥

स्वैरेव पुत्रैरन्तःपुराणि कामचारैर्जननीवर्जमुपयुज्यन्ते वैदर्भकाणाम् ॥ ३६ ॥

स्वैरिति। राजापेक्षया, कामचारैरिति। अनिषिद्धसञ्चारैः, जननीवर्जमिति। मुख्यमातरं मुक्त्वा, उपयुज्यन्ते = अभिगम्यन्ते ॥ ३६ ॥

तथा प्रवेशिभिरेव ज्ञातिसंबन्धिभिर्नान्यैरुपयुज्यन्ते स्त्रैराजकानाम् ॥ ३७ ॥

तथा प्रवेशिभिरिति। राजपुत्रवत् प्रवेशिभिः, ज्ञातिसम्बन्धिभिः, नान्यैरुपभुज्यन्ते, स्त्रैराजकानामिति। स्त्रीराजः = स्त्रीपुरी, तत्र भवानाम् ॥ ३७ ॥

ब्राह्मणैर्मित्रैर्भृत्यैर्दासचेटैश्च गौडानाम् ॥ ३८ ॥

मित्रैर्भृत्यैरिति। मित्रैश्च भृत्यैश्च, दासचेटैरिति। दासा गृहजातास्ततोऽन्ये चेटाः, गौडानामिति। गौडाः कामरूपकाः प्राच्यविशेषाः ॥३८॥

परिस्कन्दाः कर्मकराश्चान्तःपुरेष्वनिषिद्धा अन्येऽपि तद्रूपाश्च सैन्धवानाम् ॥ ३९ ॥

परिस्कन्दाः = प्रतीहाराः, कर्मकराः = शयनासनचमरादिकर्मकराः,

इत्यान्तःपुरिकावृत्तमष्टचत्वारिंशं प्रकरणम् ॥

Page 276Permalink

६ अध्याये ] दाररक्षकप्रकरणम् । २६९

अन्येऽपि तद्रूपा येऽनिषिद्धसंचाराः, उपयुज्यन्त इत्यर्थकत्वाद्द्विभक्तिवि-
परिणामेन संबन्धः, सैन्धवानामिति । सिन्धुनामा नदस्तस्य पश्चिमेन
सिन्धुदेशस्तत्र भवानाम् ॥ ३९ ॥

अर्थेन रक्षिणमुपगृह्य साहसिकाः संहताः प्रविशन्ति हैमवता-
नाम् ॥ ४० ॥

अर्थेनोपगृह्य रक्षिणां लुब्धत्वात्, साहसिका निर्भया नान्ये, संहताः
एकीभूय, हैमवतानामिति । हिमवद्द्रोणीभवानाम् ॥ ४० ॥

पुष्पदाननियोगान्नगरब्राह्मणा राजविदितमन्तःपुराणि गच्छ-
न्ति पटान्तरितश्चैषामालापः, तेन प्रसङ्गेन व्यतिकरो भवति
वङ्गाङ्गकलिङ्गकानाम् ॥ ४१ ॥

नगरब्राह्मणा इति । तत्रैव नगरे ये ब्राह्मणास्ते पुष्पाणि दातुमन्तःपुरं-
गच्छन्ति, राजविदितमिति । राजप्रज्ञातम् , पटान्तरितश्चैषामालापो-
न ताभिः साक्षाद् दृश्यमानाभिरिति देशस्थितिः, तेनेति । पुष्पदानप्र-
सङ्गेन, व्यतिकरः = संप्रयोगः, वङ्गाः तिरुहितात् पूर्वेण, अङ्गा महानद्याः-
पूर्वेण, कलिङ्गा गौडविषयाद्दक्षिणेन ॥ ४१ ॥

संहत्य नव दशेत्येकैकं युवानं प्रच्छादयन्ति प्राच्यानामित्येवं-
परस्त्रियः प्रकुर्वीत ॥ ४२ ॥
इत्यान्तःपुरिकावृत्तम् ॥

संहत्य नव दशेतीति । अत्रेतिशब्दः प्रकारे, एकैकं युवानं व्यवायक्ष-
मं प्रच्छादयन्ति न यथा दृश्यते, एवमित्युक्तेन पारदारिकेण विधिना प्र-
कुर्वीताभिगच्छेत् ॥ ४२ ॥

इत्यान्तःपुरिकावृत्तमष्टचत्वारिंशं प्रकरणम् ॥

यथा परस्त्रियमेभिरुपायैरभिगच्छेत्तथा तद्दारानपरोऽपीति, दार-
रक्षकमुच्यते, दाररक्षा प्रयोजनमस्येति, यदाह—

एभ्य एव च कारणेभ्यः स्वदारान्रक्षेत् ॥ ४३ ॥

एभ्य एवेति । कारणेभ्य इति । निमित्तेभ्यः, तत्र व्यावत्र्तनकारणब-
र्धनेन तदुच्छेदनकारणेभ्यो रक्षेत्, तथा सिद्धपुरुषेभ्यः, यैश्च द्वारदे-
शावस्थानादिभिः कारणैरभियोगमात्रसाध्यत्वं, यानि च परिचयकार-
णानि, अभियोगदूतीकर्माणि, ईश्वरकामितोपाय आन्तःपुरिकावृत्तं च
तेभ्यो रक्षेत्, तत्रायं प्रथमो रक्षणोपायो यद्रक्षानिवेशनम् ॥ ४३ ॥

यदाह—

कामोपधाशुद्धान्रक्षिणोऽन्तःपुरे स्थापयेदित्याचार्याः ॥४४॥

Page 277Permalink
२७०सटीके कामसूत्रे[ ५ अधिकरणे,

कामोपधेति । कामविषये या परीक्षा तया शुद्धान् ॥ ४४ ॥

ते हि भयेन चार्थेन चान्यं प्रयोजयेयुस्तस्मात्कामभयार्थोपधाशुद्धानिति गोणिकापुत्रः ॥ ४५ ॥

ते हीति । यद्यपि स्वयं कामोपधाशुद्धा नाभिगच्छन्ति, तथाऽपि भयेन लोभेन वाऽन्यं प्रयोजयेयुस्तदशुद्धिसंभवात्तस्मात् कामभयार्थोपधाशुद्धान् स्थापयेदिति गोणिकापुत्रः ॥ ४५ ॥

अद्रोहो धर्मस्तमपि भयाज्जह्यादतो धर्मभयोपधाशुद्धानिति वात्स्यायनः ॥ ४६ ॥

धर्मभयोपधाशुद्धानिति । वात्स्यायन एवं मन्यते धर्मोपधाशुद्धो न परदारानभिगच्छति, नार्थलोभात्स्वामिद्रोहमाचरति, भयात्तु धर्मं परित्यजेदिति ॥ ४६ ॥

स्वदारेषु परीक्षणमपि रक्षणोपाय इति के चिदित्याह—

परवाक्याभिधायिनीभिश्च गूढाकाराभिः प्रमदाभिरात्मदारानुपदध्याच्छौचाशौचपरिज्ञानार्थमिति बाभ्रवीयाः ॥ ४७ ॥

परवाक्येति । अमुकस्त्वय्यनुरक्तः स एवमाह-मम प्राणा धार्यन्तामिति । गूढाकाराभिरिति । यथा सा न जानाति पत्या प्रयुक्तेति, तयोपद्ध्यात्परीक्षेत, तथा ह्यप्रतिपन्नायाः शौचं, प्रतिपन्नायाश्चाशौचं ज्ञातं भवति ॥ ४७ ॥

दुष्टानां युवतिषु सिद्धत्वान्नाकस्माददुष्टदूषणमाचरेदिति वात्स्यायनः ॥ ४८ ॥

दुष्टानामिति । विनाशकारणानामित्यर्थः, एवं मन्यते विनाशकारणेषु सत्स्वसत्सु वा परीक्षावान्स्यात्, तत्र पूर्वस्मिन्पक्षे दुष्टानां युवतिषु प्रत्यक्षेण सिद्धत्वात् किं परीक्षया, द्वितीयेऽप्यकस्मात् कारणेन विना, नादुष्टानाभविद्यमानविनाशकारणानां दूषणमाचरेद्, शुद्धशोधनस्य दोषवत्त्वाद्, यथाक्तम्—

न शोधनमदुष्टस्य विशेषेणाभसश्चरेत् ।
कदा विद्धि प्रदुष्टस्य नाधिगम्येत भेषजम् ॥ ४८ ॥

तस्माद्विनाशकारणान्येव निरूप्यानि, येभ्यो व्यावर्तनेनोपदध्यादित्याह—

अतिगोष्ठी, निरङ्कुशत्वं, भर्तुः स्वैरता, पुरुषैः सहानियन्त्रणता, प्रवासेऽवस्थानं, विदेशे निवासः, स्वतन्त्र्युपवातः, स्वैरिणीसंसर्गः, पत्युरीर्ष्याळुता, चेति स्त्रीणां विनाशकारणानि ॥ ४९ ॥