Skip to content
SarvaKosh
कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

by महर्षि वात्स्यायन / यशोधर इन्द्रपाद

DevanagariSanskritpublished353 pages

Page 305 of 353

Read in context
Page 305

२९८ सटीक कामसूत्रे [ ६ अधिकरणे,

स्वमोष्ठं च क्रोडीकृत्य बहिर्निष्कासयेत्, पादेन भूमेरभिघातः, भूमौ पादास्फालनं, तदुभयं नित्यक्रुद्धताख्यापनार्थम्, अविज्ञातविषयस्य संकथेति । यस्मिन्विषये नायकस्य परिज्ञानं नास्ति, तस्मिन् तस्य संबन्धिनः- शोभनमिदं जानातीति संकथा कर्तव्या, यथाऽस्य लोकमध्ये वैलक्ष्यं भवति, विज्ञातेष्वविस्मयो वैराग्यख्यापनार्थं, कुत्सा च, दुःशिक्षितमस्यैतदिति, दर्पविघातः शौर्यादिजनितदर्पस्यापनयनम्, अन्यं प्रोत्साह्य येनायं विलक्षीभवति, अधिकैः सह संवासः, येन तेभ्यो बिभ्यन्न ढौकते, अनपेक्षणमिष्टानिष्टवस्तुष्ववज्ञाख्यापनार्थं, समानदोषाणां निन्दा, यथाऽयं तद्द्वारेण मां कुत्सयतीति जानाति, रहसि चावस्थानं, रताऽर्थं संकथाऽर्थं वा ॥ ४१ ॥

तत्र रतमधिकृत्याह—

रतोपचारेषूद्वेगः, मुखस्यादानं, जघनस्य रक्षणं, नखदशनक्षतेभ्यो जुगुप्सा, परिष्वङ्गे भुजमध्यया सूच्या व्यवधानं, स्तब्धता गात्राणां, सक्थ्नोर्व्यत्यासः, निद्रापरत्वं च, श्रान्तमुपलभ्य चोदना, अशक्तौ हासः, शक्तावनभिनन्दनं, दिवाऽपि भावमुपलभ्य महाजनाभिगमनम् ॥ ४२ ॥

रतोपचारेष्विति । रतार्थं सरकताम्बूलादिषूपचारेषु, उद्वेग इत्यप्रतिग्रहणम्, प्रतिग्रहणे वाऽसौमनस्यम्, मुखस्यादानं मुखं चुम्बितुं न देयं, जघनस्य रक्षणं द्रष्टुं स्प्रष्टुं वा न देयं, नखदशनक्षतेभ्यस्तत्कृतेभ्यः जुगुप्सा = निन्दा, भुजमध्येति । भुजौ व्यत्यस्य स्तनस्कन्धयोर्निदध्यात्, ततो भुजावेकीकृत्य सूचीव सूची तया व्यवधानं परिष्वङ्गस्य, स्तब्धता गात्राणां कर्तव्या नाक्रष्टुं दद्यादित्यर्थः, सक्थ्नोर्व्यत्यासः, सक्थिनी व्यत्यस्येद् यन्त्रयोगे प्रतिषेधार्थमूरू व्यत्यस्येदित्यर्थः, निद्रापरत्वं चात्मनः ख्याप्यं, श्रान्तमुपलभ्येति । यदि कथं चिद्रन्तुं प्रवृत्तस्तत्र श्रान्तं चोदयेत्प्रवर्तयितुं न पुरुषायितेन साहाय्यं दद्यात्, तत्र चोदितस्याशक्तौ हासः कर्तव्यः, पाण्याऽभिहत्य यथाऽयं विरक्तीभवति, शक्तावनभिनन्दनं वैराग्यख्यापनार्थं, दिवाऽपीति । अस्त्येव कश्चित्कामगर्दभो यः प्रतिषिद्धमपि दिवा मैथुनमाचरति, भावमुत्कण्ठां संप्रयोगेच्छामुपलभ्य, चेङ्गिताकाराभ्यां महाजनाभिगमनं, रतिगृहान्निर्गत्य तदिच्छाव्याघातार्थम् ॥ ४२ ॥

संकथामधिकृत्याह—

वाक्येषु च्छलग्रहणम्, अनर्मणि हासः, नर्मणि चान्यमपदिश्य